________________
PARArrnAnnAAAAAAm
AAAAAAAAAAAAAAA
*- ----- *
वृहज्जैनवाणीसंग्रह । । १८७ * मलौषधीशाः स्वस्ति क्रियासुः परमर्षयो नः ॥९॥ क्षीरं * लवंतोऽत्र घृतं स्रवंता मधुस्रवतोऽप्यमृतं स्रवंतः । अक्षीण* संवासमहानसाश्च स्वस्ति क्रियासुः परमर्षयो नः ॥१०॥
___इति परमर्षिवस्तिमंगलविधानं । सार्चः सर्वज्ञनाथः सकलतनुभृतां पापसंतापहर्ता, त्रैलोक्याक्रांतकीतिः क्षतमदनरिपुर्धातिकर्मप्रणाशः । श्रीमानि-1 पणिसंपदरयुवतिकरालीढकंठः सुकंठेदेवेंद्रचंद्यपादो जयति जिनपतिः प्राप्तकल्याणपूजः ॥१॥
जय जय जय श्रीसत्कांतिप्रभो जगतां पते !
जय जय भवानेव स्वामी भवांभसि मज्जतां । ___ जय जय महा मोहध्वांतप्रभातकृतेऽर्चनं । ॐ जय जय जिनेश त्वं नाथ प्रसीद करोम्यहम् ॥२॥ ।ओं ह्रीं भगवजिनेन्द्र ! अत्र अवतर अवतर । संवौषट् ( इत्याह्वानम् )
ओं ही भगवज्जिनेंद् ! अत्र तिष्ठ तिष्ठ। ठः ठः (इति स्थापनम्) ओं ही * भगवजिन्द्र ! अन मम सन्निहितो भव भव । वषट् (इति सन्निधिकरणं)
देवि श्रीश्रुतदेवते भगवति ! त्वत्पादपकेरुह,
द्वंदे यामि शिलीमुखित्वमपरं भक्तयामया प्रार्थ्यते।। . मातश्चेतसि तिष्ठ मे जिनमुखोद्भूते सदा त्राहि मां * दृग्दानेन मयि प्रसीद भवती संपूजयामोऽधुना ॥३॥
ओं हीं जिनमुखोद्भूतद्वादशांगश्रुतज्ञान ! अत्र अवतर अवतर। संवौषट् । ओं ह्रीं जिनमुखोद्भूतद्वादशांगनृतज्ञान ! अत्र तिष्ठ तिष्ठ । ठः ठः । ओं ही जिनमुखोद्भूतद्वादशांगश्रुतज्ञान ! अत्र मम सन्निहितो भव भववषट्। *
SANS