________________
५७१
पविकासमेतः। एवं वावदनिर्भासं ज्ञानं न बाह्यमर्थ विजानातीति प्रतिपादितम् । नापि सनिर्भासमिति द्वितीयं पक्षमाश्रित्य प्रतिपादयन्नाह-अस्तु तीत्यादि ।
अस्तु तर्हि ससारूप्यं विज्ञानं बायवेदकम् ।
तस्यापि सर्वथाऽयोगान युक्ता घेदकस्थितिः ॥ २०३६ ॥ नहि भाविक आकारो युक्तो यतस्तदशादर्थव्यवस्थानं स्यात् । नचालीकेन साका. रेणार्थः संविदितो भवेत् , भ्रान्तेऽपि ज्ञाने तथाविधस्य भावात् ॥ २०३६ ।। कथमलीकत्वं साकाराणामिति चेदाह-ज्ञानादित्यादि ।
ज्ञानाव्यतिरिक्तवानाकारबहुता भवेत् । ततश्च तहलेनास्ति नार्थसंवेदनस्थितिः॥ २०३७ ॥ आकाराव्यतिरिक्तत्वात् ज्ञाने वाऽनेकता भवेत् ।
अन्यथा कथमेकत्वमनयोः परिकल्प्यते ॥ २०३८ ॥ चित्रास्तरणदर्शने एकस्माज्ज्ञानाव्यतिरिक्तत्वाज्ञानस्वरूपवदाकाराणां बहुता न प्राप्नोति । एवमाकाराव्यतिरिक्तत्वाज्ञानस्याप्यनेकता प्राप्नोति । ये तु मन्यन्ते समानजातीयान्यपि ज्ञानान्याकारसयान्येव बहूनि चित्रास्तरणादिषु युगपत्समुद्भवन्येव विजातीयरूपशब्दादिज्ञानवदिति । ततश्च प्रसङ्गे सिद्धसाध्यतेति । तेषां चित्रास्तरणे यथा नीलादयो बहव आकाराः संवेद्यन्ते । एवमेकाकारेऽपि सितादावर्वाग्मध्यपरभागरूपा बहव आकारा इति तदात्मकं तत्रापि ज्ञानमनेकात्मकं प्राप्नोति । इष्यत एवेति चेत् । किमिदानीमेकं ज्ञानं भवतीति वक्तव्यम् । यदनवयवाणुविषय. मिति चेत् । तदेतदनुभवविरुद्धम् । नहि कचिदनवयवमणुरूपं भासमानमालक्ष्यते झाने । नवाऽप्यमूर्त्तानां पौर्वापर्यावस्थानं देशकृतं युक्तम् । येन तस्य सत्यताप्रसिद्धयेऽनेकज्ञानकल्पना साध्वी स्यात् । देशवितानप्रतिभासस्यालीकत्वे कथमाकाराणां सत्यता स्यान्नहि देशवितानावस्थितनीलादिप्रतिभासव्यतिरेकेणान्यो नीलादिज्ञानाकार: संवेद्यते । अतोऽनेकज्ञानकल्पनावैयर्थ्यमेव ॥ २०३७ ।। २०३८ ॥ दूषणान्तरमाह-सर्वात्मनेत्यादि ।
सर्वात्मना च सारूप्ये ज्ञानेऽज्ञानादिता भवेत् ।
साम्ये केनचिदंशेन सर्व स्यात्सर्ववेदकम् ॥ २०३९ ॥ अज्ञानता-जडरूपत्वम् । आदिशब्देन नसरागता नसद्वेषवेलादि गृपार०३९॥