________________
केणापरः प्रतिबन्धोऽखि, यतो विषयविषयिभावः सिख्खेत् । नापि तादात्म्यवदुसचिभ्यां विषयविषयिभावो युक्त इति विचारितमतो न व्यतिरिक्तस्य कथंचित्सहोपलम्भोऽस्तीति कुतः संदिग्धविपक्षव्यावृत्तिकता हेतोः ॥ २०३२ ॥ द्वितीयमपि साकारतासिद्धये साधनमाह-संवेदनमिदमित्यादि ।
संवेदनमिदं सर्व न चार्थान्तरगोचरम् ।
संवेदनं च (नीलस्य) खात्मसंवेदनं यथा ॥ २०३३ ॥ यद्यसंवेदनं तत्तज्ज्ञानानान्तरविषयं यथाऽऽत्मसंवेदनं, संवेदनं चेदं नीलाचाकारस्येति विरुद्धव्याप्तोपलब्धिः । अर्थान्तरगोचरत्वविरुद्धेनानन्तरगोचरत्वेन संवेदनस्य व्याप्तत्वात् ॥ २०३३ ॥ तामेव व्याप्तिं साधयाह-मुख्यतोऽर्थमित्यादि ।
मुख्यतोऽथ न गृह्णाति खखभावव्यवस्थितेः। अर्थाकारोपरागेण वियोगाच न भक्तितः ॥ २०३४ ॥ शुद्धस्फटिकसंकाशमाकारैरनकितम् ।
यैरिष्टं वेदनं कैश्चिदिदं तान्प्रति साधनम् ॥ २०३५ ॥ निर्व्यापारत्वात्सर्वधर्माणां न परमार्थतः कस्यचित्केनचिहणं, केवलं प्रकाशरूपतया तथा प्रथमानं विज्ञानमात्मनो ग्राहकमुच्यते । नचैव मुख्यतोऽर्थस्य प्राहक ज्ञानं युक्तम् , सर्वभावानां स्वखभावव्यवस्थितेः, न हि तदात्मा यः सोऽपरस्यापि । स्थादेतत्-नहि मुख्यतो यादृशं ज्ञानस्यात्मसंवेदनं ताहगेवार्थस्येष्टम् , किं तर्हि १, खाभासज्ञानजनकत्वमेवार्थस्य संवेद्यत्वम्, ततश्च यदि मुख्यं संवेदनं हेतुत्वेनोपादीयते तदा हेतोरसिद्धता, अथापि यथाकथंचित्संवेदनशब्दवाच्यतासाम्यात् । तथाऽपि न तथाविधादिष्टसिद्धिः, नहि गोशब्दसाम्याद्वयादीनां विषाणित्वसिद्धिः । अथ ज्ञानारूढं नीलाद्याकारं धर्मिणमाश्रित्य साकारणानपक्षे द्विविधोऽपि हेतुरमिप्रेतस्तदा सिद्धसाध्यता । यथोक्तम्-साकारमानपक्षे च तमिर्भासय वेद्यता । तस्याभेदे च संसाध्ये सिद्धसाधनता भवेत् ॥ इत्येतत्सर्व भदन्तशुभगुप्तस्य चोधमाशयाह-अर्थाकारोपरागेणेत्यादि । अर्थाकारोऽर्थसदृशश्वासावुपरागो निर्मासत्याकारोपरागः । इदमिति । द्विविधमपि साधनं निराकारवादिनं प्रतियतस्तेन न सिद्धसाध्यता, नाप्युपचारेणान्यस संवेदनमस्ति, उपचारनिवन्धनाभावात् ॥ २०३४ ॥ २०३५ ॥