________________
३७०
तत्त्वसङ्ग्रहः ।
यहच्छाशब्देषु प्रयुज्यमानेषु नान्ना विशिष्टोऽर्थ उच्यते, एवं जात्यादिशब्देषु गौरित्यादिषु नाना विशिष्टोऽर्थ उच्यते इत्येतत् सर्वत्र प्रन्धे योजनीयमिति ।। १२२४ ॥ कथं तर्हि जात्या गुणेन क्रियया द्रव्येण वेत्येतदपरं तृतीयान्तं योजनीयमित्याह स्वित्यादि ।
तैस्तु करणविभक्त्या साफल्यमनुभूयते ।
नाम्नो जात्यादिभिः सेयमित्यर्थोऽध्यवतिष्ठते ।। १२२५ ॥
जात्या करणभूतया नाम्ना विशिष्टोऽर्थ उच्यते गौरिति, तथा गुणादिमि:, इत्येवं तैर्जात्यादिभिः करणविभक्त्या सम्बन्धात्साफल्यमनुभूयते । यद्येवं, नामजात्यादियोजनेत्यत्र सूत्रे कथं सम्बन्धः कार्य इत्याह — नाम्नो जात्यादिभिरिति योजनेति शेषः । सेयमिति । अनेन समासार्थलभ्यां कल्पनामेव निर्दिशति । जात्यादिमिर्योजना जात्यादियोजना, नाम्नो जात्यादियोजना सेयं नामजात्यादियोजनेत्ययं समासार्थोऽध्यवतिष्ठत इति यावत् ।। १२२५ ॥
यद्येवं यदृच्छाशब्देषु जात्यादीनां प्रवृत्तिनिमित्तानामभावादव्यापिनी व्यवस्था भवेदित्याशङ्कयाह—यदृच्छाशब्दवाच्याया इति ।
यदृच्छाशब्दवाच्याया जातेः सद्भावतो न च ।
अव्याप्तिरस्य मन्तव्या प्रसिद्धेस्तु पृथक्श्रुतिः ॥ १२२६ ॥ एतदुक्तं भवति - येऽप्येते डित्थादयः शब्दा यदृच्छाशब्दत्वेन प्रतीतास्तेऽपि जन्मनः प्रभृत्यामरणक्षणादनुवर्त्तमानाः प्रतिक्षणभेदमिन्नमसाधारणभेदेन वस्तु गमयितुमशक्ताः कालप्रकर्षमर्यादावच्छिन्नवस्तुसमवेतां जातिमभिधेयत्वेनोपाददते । अ न्यथा हि बालाद्यवस्थाभेदपरिच्छिन्नवस्तुभागविषयतया निरूढाः कथं वृद्धाद्यव - स्थोपहितभेदमपि वस्तु प्रतिपादयेयुः । येषामपि न क्षणिको देहः किं तर्हि ? कालान्तरावस्थायीति दर्शनम्, तेषामपि यथाकालमपचीयमानावयवसम्बन्धादवयवापचयाद्वाऽन्यदन्यद्द्रव्यमवस्थाभेदेष्विति सिद्धम् । परिणतिदर्शनेऽपि यदवस्थाभेदसम्बद्धं वस्तु तच्छब्दवाच्यतया प्रतिज्ञातं ततश्वावस्थान्तरं समाश्रयेत तदेव वस्तु तेन शब्देन नामिधीयेत, यथा पयसि विनिश्चिताभिधानशक्तिः क्षीरशब्दो न दनि प्रवर्त्तते, तथा शरीरेऽपि नावस्थान्तरे प्रवर्त्तेतेति जातिरवश्याभ्युपगन्तव्या । अथवा मा भूद्वस्तुभूता जातिस्तथाऽपि नाव्यापिनी व्यवस्था । तथाहि- -त एव भेदा अवि