________________
पश्चिकासमेतः ।
३६९
द्वयोतित:
: यस्मान्नाम च जात्यादयश्च नामजात्यादयस्तेषां योजनेत्येवं वर्गद्वयमुकम्, अन्यथा नामादियोजना यदि वा जात्यादियोजनेत्येव वाच्यं स्यात् । नचेदं परिगणनम्, आदिशब्दवैफल्यप्रसङ्गात् || १२२१ ॥
,
* ननु च कल्पना ज्ञानधर्मः, तद्विरहप्रतिपादनमेव प्रकृतं, प्रत्यक्षाधिकारात्, नार्थधर्मविरह प्रतिपादनम् । नामजात्यादीनां च या योजना तद्वद्भिः साऽर्थगतो धर्मः, न ज्ञानस्य, ततश्चाप्रस्तुतामिधायित्वं लक्षणकारस्येति चोद्यमाशङ्कयाह – नामादियोजना चेयमिति ।
नामादियोजना चेयं स्वनिमित्तमनन्तरम् ।
आक्षिप्य वर्त्तते येन तेन नाप्रस्तुताभिघा ॥। १२२२ ॥
"
अनन्तरम् —अव्यवहितं निमित्तं यत्तस्याः कारणम् । तत्पुनराविष्टामिलापा प्रतीतिः । सा च वस्तुद्वयानुसन्धानाका रोत्पत्तितस्तथा योजनेति व्यपदिश्यते, नैव तु कश्चित्कंचिद्योजयति, निर्व्यापारत्वात्सर्वधर्माणाम् । तस्याक्षेपो द्वाभ्यां प्रकाराभ्याम् । ताभ्यां योजना यतो भवति सा तथोक्ता । गमकत्वाद्वैयधिकरण्येऽपि च बहुव्रीहिः । कारणे कार्योपचाराद्वा । उपचारस्य च प्रयोजनं तदन्यकारणेभ्यो विशिष्टकार्यकारिणः स्वभावख्यापनम् ॥ १२२२ ॥
अथवा — योज्यतेऽनयेति योजना, नामजात्यादीनां योजनेति समासं कृत्वाऽ
-
मिलापिन्येव कल्पना निर्दिष्टेत्यदोष इति दर्शयति - नामजात्यादय इत्यादि । नामजात्यादयः सर्वे योज्यन्ते वाऽनयेति सा ।
तथोक्ता कल्पना प्रोक्ता प्रतीतिरभिलापिनी ॥ १२२३ ॥ यद्वेत्यादिना परिहारान्तरमाह -
यद्वा खमतसिद्धैव केवला कल्पनोदिता ।
सर्वत्र नाम्ना युक्तोऽर्थ उच्यत इति योजनात् ॥ १२२४ ॥ यद्येवं कथमयमाचार्यीयो वृत्तिप्रन्थो नीयते । तद्यथा—यहच्छाशब्देषु नान्ना विशिष्टोऽर्य उच्यते द्वित्थ इति, जातिशब्देषु जात्या गौरिति, गुणशब्देषु गुणेन शुक्ल इति, क्रियाशब्देषु क्रियया पाचक इति, द्रव्यशब्देषु द्रव्येण दण्डी विषाणीति । अनेन हि प्रन्थेन जात्यादि विशेषणयुक्तस्याप्यर्थस्योच्यमानत्वं पृथक्प्रकाशितमित्यत आह - सर्वत्रेत्यादि । सर्वत्रेति । जात्यादिशब्देष्वपि । एतदुक्तं भवति — यथा
I
४७