________________
___२८३
पषिकासमेतः। तद्वयत्याकृतिजातीनां पदार्थत्वं यदुच्यते ।
तदसम्भवि सर्वासामपि नीरूपता यतः ॥ ८८४ ॥ तदिति । तस्मात् । नीरूपतेति । निःस्वभावता ॥ ८८४ ॥
बुद्ध्याकारश्च बुद्धिस्थो नार्थबुद्ध्यन्तरानुगः ।
नाभिप्रेतार्थकारी च सोऽपि वाच्यो न तत्त्वतः ॥ ८८५ ॥ बुद्ध्याकारो हि तादात्म्येन बुद्धावेवावस्थित इति नासौ तद्बुद्धिस्वरूपवत्प्रतिपाद्यमर्थ बुद्ध्यन्तरं वाऽनुगच्छति, ततश्च सङ्केतव्यवहाराप्तकालाव्यापकत्वात्स्खलक्षणवन्न तत्रापि समयः सम्भवति, भवतु वा तस्य व्यवहारकालान्वयस्तथापि न तत्र समयो व्यवहर्तृणां युक्तः । तथा हि-अपि नामेतः शब्दादर्थक्रियार्थी पुमानर्थक्रियाक्षमानान्विज्ञाय प्रवर्तिष्यते तेष्विति मन्यमानैर्व्यवहर्तृभिरभिधायकानि योज्यन्ते, न ध्यसनितया, न चासौ विकल्पबुद्ध्याकारोऽभिप्रेतं शीतापनोदादि कार्य तदर्थिनः सम्पादयितुमलम् , तदनुभवोत्पत्तावपि तदभावात् । तेन तत्रापि समयाभावान्नासिद्धोऽकृतसमयत्वादिति हेतुः ॥ ८८५ ॥
स्यादेतत्-अस्त्यर्थादयोऽपरे शब्दार्थाः सन्ति । ततश्च तत्र समयसम्भवादसिद्धतैव हेतोरित्यत आह-येऽन्येऽन्यथैवेत्यादि ।
येऽन्येऽन्यथैव शब्दार्थमस्त्यर्थादीन्प्रचक्षते ।
निरस्ता एव तेऽप्येतैस्तथापि पुनरुच्यते ॥ ८८६ ॥ एतैरिति । स्खलक्षणादिशब्दार्थप्रतिषेधैः । तेषां स्खलक्षणादिष्वेवान्तर्भावादिति भावः ॥ ८८६ ॥ के पुनस्तेऽस्त्यादय इति दर्शयन्नाह-अस्त्यर्थ इत्यादि ।
अस्त्यर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणम् ।
अपूर्वदेवताखणैः सममाहुर्गवादिषु ॥ ८८७ ॥ इतिशब्दो मिन्नक्रमः अस्यर्थ इत्यस्यानन्तरं सम्बध्यते । तेनायमों भवतिअस्त्यर्थ इति यदेतत्प्रतीयते, तत्सर्वशब्दानां प्रत्याय्यस्यामिधेयस्य लक्षणम् । शब्दार्थस्य लक्षणमिति यावत् । तेन गवादिष्वर्थेषु विषयभूतेषु यद्गवादिशब्दप्रत्याय्यं तद्पूर्वदेवतास्वगैस्तुल्यमित्याहुः । अपूर्वादिशब्दार्थस्तत्तुल्यमित्येवमाहुरित्यर्थः । यथैव छपूर्वादिशब्दा नाकारविशेष बुद्धिषु सन्निवेशयन्ति, केवलं तत्रैतावत्प्रतीयते-सन्ति