________________
२८२
तत्त्वसङ्ग्रहः। शिरःपाण्यादिसंनिवेशदर्शनागोत्वं व्यज्यते । कदाचिजातिलिङ्गानि-यदा विषाणादिमिरवयवैः पृथक्पृथक्खावयवसनिवेशामिव्यक्तैर्गोत्वादिय॑ज्यते । तेन जातेस्तल्लिमानां च प्रख्यापिका भवत्याकृतिः । जातिशब्देनामिन्नामिधानप्रत्ययप्रसवनिमित्तं सामान्याख्यं वस्तूच्यते । तथाच सूत्रं “समानप्रसवात्मिका जाति"रिति समानप्र- . त्ययोत्पत्तिकारणं जातिरित्यर्थः । तत्र व्यत्याकृत्योरेतेनैव स्वलक्षणस्य शब्दार्थत्वनिराकरणेन शब्दार्थत्वनिराकरणं बोद्धव्यमिति दर्शयन्नाह-एतेनैवेत्यादि ।
एतेनैव प्रकारेण व्यक्तयाकृत्योर्निराकृतिः।
खलक्षणात्मतैवेष्टा तयोरपि यतः परैः ॥ ८८१॥ जातेस्तु पश्चानिराकरणं भविष्यतीत्यमिप्रायः । निराकृतिरिति । शब्दार्थत्वेनेति शेषः । कस्मादित्याह-स्वलक्षणात्मतैवेत्यादि । तयोरिति । व्यत्याकृत्योः । तेन यथा स्खलक्षणस्याकृतसमयत्वादशब्दार्थत्वं तथा तयोरपीत्यतोऽकृतसमयत्वादित्यस्य हेतो सिद्धिर्नाप्यनैकान्तिकतेति भावः ॥ ८८१ ॥ ___किंच-व्यक्तिद्रव्यगुणविशेषकर्मलक्षणा, आकृतिश्च संयोगात्मिका, एते च द्रव्यादयः प्रागेव प्रतिषिद्धा इत्यतोऽपि शब्दार्थत्वमनयोरसद्भावान युक्तमिति दर्शयति -द्रव्यादीत्यादि।
द्रव्यादियोगयोः प्रात्तु प्रतिषेधाभिधानतः।
न ताखिकी तयोर्युक्ता शब्दार्थत्वव्यवस्थितिः ॥ ८८२ ।। एवं तावत्स्वलक्षणे समयासम्भवं प्रतिपाद्य जात्यादिषु त्रिषु समयासम्भवं प्रतिपादयन्नाह-जातिसम्बन्धयोरित्यादि ।
जातिसम्बन्धयोः पूर्व व्यासतः प्रतिषेधनात् ।
नानन्तराः प्रकल्प्यन्ते शब्दार्थास्त्रिविधाः परे ॥ ८८३ ॥ अनन्तरा इति । स्खलक्षणमुक्ता जातिस्तद्योगो जातिमानिति जातितद्योगयो. रभावात्तद्वतोऽप्यसम्भव एव, तत्कृतत्वात्तव्यपदेशस्य, तद्वतश्च स्खलक्षणात्मकत्वात् । तत्पक्षभावी दोषः समान एवेति भावः । जातिः पदार्थ इति वाजा (का?) त्यायन:, द्रव्यमिति व्याडिः, उभयं पाणिनिः । तदप्यनेनैव निरस्तम् , जातेरयोगाद्रव्यस च खलक्षणात्मकत्वाचत्पक्षभाविदोषानिवृत्तेः ।। ८८३ ।। उपसंहरबाह-तपस्याकृतीत्यादि ।