________________
पषिकासमेतः। शासप्रयोजनादिस्तं प्रति वाक्यमिदमारभ्यते । तस्य च प्रेक्षावतः संशय एव वाक्यतोऽस्मादुपजायते न निश्चयोऽप्रमाणत्वात् । स च संशयः प्रागपि वाक्योपन्यासादनीति व्यर्थः प्रयोजनादिवाक्योपन्यासः ॥
तदत्राभिधीयते । यत्तावदुक्तं निश्चयेनैव प्रेक्षावतां प्रवृत्तिरिति तदसत् । संशयेनापि प्रवृत्तिदर्शनात् । यथा कृषीवलादीनाम् । स्यादेतद्यद्यपि कृषीवलादे विनि फले संशयस्तथापि तत्फलसाधननिश्चयस्तेषां विद्यत एव । तेन निश्चयपूर्विकैव तेषां प्रवृ. त्तिरिति । तदसम्यक् । यदर्थ हि यस्य प्रवृत्तिः सा तत्संशयेऽपि तस्य भवतीत्येतावदिह प्रकृतम् । न च कृषीवलादयः साधनार्थ तेषु प्रवर्त्तन्ते येन साधनविषयनिश्रयसद्भावानिश्चयपूर्विका प्रवृत्तिरेषामुपवर्ण्यते । किं तर्हि । फलार्थ ते तत्र प्रवर्त्तन्ते ।
न च फले प्रतिबन्धादिसम्भवान्न निश्चयोऽस्तीत्यतः संशयपूर्विकैव तेषां प्रवृत्तिः । याऽपि चाऽऽद्यायां प्रवृत्तौ साधननिश्चयार्था प्रवृत्तिरेषाम् । तत्रापि न साधननिश्चयः । तदर्थत्वादेव प्रवृत्तेः । अपिच–साधननिश्चयोऽपि तेषां भाविफलापेक्षयाभवन्नवश्यमेतदनागतमेवंविध फलं साधयिष्यतीत्येवंरूपो भवेत् , यद्वा प्रतिबन्धकसहकारिवैकल्ययोरसम्भवे सत्यवश्यममिमतफलसम्पादनायालमेतदित्येवंरूपः । न तत्र तावदायो युक्तरूपः सम्भवत्सहकारिवैकल्यप्रतिबन्धकोपनिपातस्य कस्यचिदुपलब्धतथाविधफलस्यापि शाल्यादेरनागतफलं प्रत्यसाधनत्वदर्शनेन सर्वत्राऽऽशङ्काया अव्यावृत्तेर्यदाह-"सामप्रीफलशक्तीनां परिणामानुबन्धिनि । अनैकान्तिकता कार्ये प्रतिबन्धादिसम्भवात् ॥” इति । अथ द्वितीयस्तदा युक्ततरमेतत् । एवंरूपत्वादेव सर्वस्याः प्रमाणपूर्विकायाः प्रवृत्तेः । अत एव चाचार्यास्तत्र योग्यतानुमानेन विशेषणं विधति । असति प्रतिबन्धे योग्यमेतदिति । किं तु फलमप्यनेन रूपेण निश्चितमेवेति न साधनस्यैव निश्चयः । न चाप्येवंप्रवृत्तौ परमार्थतः फलनिश्चयपूर्विका प्रवृत्तिः सिध्यति । प्रतिबन्धाद्यसत्वस्यैवापरदर्शनैर्निश्चेतुमशक्यत्वात् ॥
स्यादेतत्-यद्यपि परमार्थतः प्रतिबन्धाभावो निश्चेतुमशक्यस्तथापि यदि प्रतिबन्धो न स्यात् , तदावश्यमस्मात् फलप्राप्तिर्नियमेनेत्येवंविधो निश्चयः प्रमाणपूर्विकायां प्रवृत्तौ विद्यत एव, नत्वप्रमाणपूर्विकायामन्यथा प्रमाणाप्रमाणपूर्विकयोः प्रवृस्योर्विशेषो न स्यात्। स च तथाविधोऽपि निश्चयो वाक्यान सम्भवत्येव; बालेऽर्थे वत्र वलाप्रतिबन्धेनाप्रमाणत्वादिति । सत्यमेवैवत् । किंतु-यदि वाक्यान करसचिो