________________
तत्त्वसहः। इह हि शाने प्रेक्षावताममिधेयप्रयोजनावसायपूर्विका प्रवृत्तिर्महत्सु च प्रसादः सर्वश्रेयोऽधिगतेः कारणं प्रथममित्यालोच्य भगवति प्रसादोत्पादनार्थ शास्ने चास्मिबादरेण श्रोतुः प्रवृत्त्यर्थ स्वशास्तृपूजाविधिपूर्वकमस्य शानस्य प्रकृतीत्यादिमिः श्लोकैस्तत्त्वसह इत्येतत्पर्यन्तैरमिधेयप्रयोजने प्राह ॥
तथाहि-यद्यमिधेयमस्य न कथ्येत तदोन्मत्तादिवाक्यवदानर्थक्यं सम्भावयन् प्रेक्षावान प्रवर्तेतापि श्रोतुमित्यभिधेयमस्यावश्यवचनीयम् । तथा सत्यमिधेये काकदन्तादिपरीक्षाशास्त्रवदमिमतप्रयोजनरहितं शास्त्रं प्रेक्षावन्तः श्रोतुमपि नाद्रियन्त इति ततस्तत्प्रवृत्त्यर्थमादौ प्रयोजनमभिधानीयम् । प्राधान्येन तु प्रयोजनमेव प्रवृत्त्यजम् । तदर्थितयैव शास्त्रेषु श्रोतृजनस्य प्रवृत्तेः । तच्चामिधेयशून्येन शास्त्रेणाशक्यं सम्पादयितुमिति शास्त्रस्य प्रयोजनोपायतासंदर्शनार्थमभिधेयकथनम् । तच प्रयोजनमनुगुणोपायमुपदर्शनीयं न पुनरशक्यतत्साधनानुष्ठानम् । अन्यथा विषहरतक्षकचूडारबालारोपदेशशास्त्रवत्सत्यपि प्रयोजने तत्साधनानुष्ठानाशक्यतां मत्वा न प्रवतेत प्रेक्षावान् । अत एवोक्तम्-"संबद्धानुगुणोपायं पुरुषार्थाभिधायकम् । परीक्षाऽविकृतं वाक्यमतो न विकृतं परम् ॥” इति । तस्माच्छाबेषु प्रवृत्त्यर्थमभिधेयादिकथनम् ॥
ननु प्रेक्षावतां प्रवृत्तिनिश्चयादेव । निश्चयश्च प्रमाणादेव । न चास्य प्रयोजनवा. क्यस्यात्राभिधेयादौ बाह्येऽर्थे प्रामाण्यमस्ति । तत्रास्य प्रतिबन्धाभावात् । तथा हि-न वावत्तादात्म्यलक्षणः प्रतिबन्धोद्धो?)त्पन्नभेदात् । नापि तदुत्पत्तिलक्षण इच्छामात्रप्रतिबद्धत्वाद्वाक्यस्य । न चाप्रतिबद्धाद्वाक्याजिशासितेऽर्थे ज्ञानमुत्पद्यमानं प्रमाणं युक्तमतिप्रसङ्गात् । विवक्षायां च यद्यपि प्रामाण्यं वाक्यस्य । तथापि न तत्प्रेक्षावतः प्रवृत्त्यङ्गम्। नहि ये यथा विवक्षन्ति ते तथैवानुष्ठानकाले कुर्वन्ति विसंवादना(द)मिप्रायस्य । भन्यथा प्रतिज्ञायाऽप्यन्यथा शाखरचनासम्भवात् ॥ अपि च यः प्रमाणान्तरादधिगतशासप्रयोजनस्तं प्रति प्रयोजनवाक्योपन्यासोऽनर्थक एव । तस्य प्रमाणान्तरादेव प्रवृत्तत्वात् ॥ यश्चापि प्रमाणान्तरेण बाधितशाखप्रयोजनस्तं प्रति सुतरामनर्थक एव, तस्य प्रमाणान्तरेण बाधितत्वादेव प्रवृत्त्यसम्भवात् । एतब द्वयमभ्युपगम्योच्यते । न तु किंचिदर्वाग्दृशां प्राक्प्रवृत्तेः प्रयोजनादिसाधकं तद्वाधकं वा प्रमाणमस्ति । येनामी तत्सदसत्तामवगच्छेयुः । वसाः प्रवृतिसमधिगम्यत्वात् । किं तु योऽनधिगत