________________
परहिवारलेशाभिरामा संस्कारादिनुःखत्रयाभिभूतं जगदवेक्ष्य पापरतत्रतया ताबदुखिनः सन्तः सकलानेव संसारिणो दुःखाम्बुधेरुविधीर्षन्तः समाहितबोधिचित्ताः कुशलैकपराः अप्रस्वक्तिमार्गासिराफलापत्तमः सादरनिरन्तरदीर्षकालानुस्यूतनैरात्म्यदर्शनाभ्यासपाटवापगतसकलालेशावरणवापरणाः सदाप्रभाखरी सम्यक्सम्बोधिमुपगताः, तेहि सर्वज्ञा बुद्धाः। • "साक्षास्कृतिविशेषाच दोषो नास्ति सवासनः । सर्वज्ञत्वमतः सिद्धं सर्वावरणमुक्तितः ॥” [८४५]
श्रावकप्रत्येकबुद्धाभ्यां समधिकतरः प्रकर्षो बुद्धेषु । तयोहि न सर्वज्ञता । अपगतेऽपि नैरात्म्यदर्शनेन क्लेशावरणे नैरात्म्यदर्शनाभ्यासपाटवाभावेन लेयावरणानपगमात् । तथाचोकम्-"अत एवं श्रावकानैरात्म्यदर्शनेऽपि न सर्वज्ञत्वम् । तथाविधान्तराभ्यासविशेषाभावेन यावरणस्याप्रहाणात्" इति । त एते बोधिसत्त्वाः सर्वज्ञा आसंसारमशेषसत्त्वोद्धरणायावतिष्ठन्ति । श्रावकादयस्तु नेतरे। तथाचोकम्-"सात्मीभूतमहाकृपाणामासंसारमशेषसत्त्वोद्धरणायावस्थानात् तदाश्रयवर्तिनी चित्तसन्ततिरतितरां स्थिराश्रया। या तु श्रावकादीनां सन्तानवर्तिनी सा न स्थिराश्रया । तेषां शीघ्रतरं परिनिर्वाणान्मन्दत्वात्कृपायास्तेषामवस्थाने यन्नाभावात्" [ ८९४ ] इति । न च यावत् संसारमवतिष्ठन्तीलेतावता न रागादिमलावलेपप्रसङ्ग एषां व्यपगतसर्वावरणा लेते । चित्तसन्ततिरेषां सकलविकल्पापेता. व्ययगतागन्तुकमला खाभाविकप्रज्ञाकरुणाप्रभाखरा हि प्रवर्तते । न येषामितोऽन्यनिर्वाणं नाम सम्पाद्यं समधिकतरमस्ति, यत्सकलसत्त्वदुःखोन्मूलनकान्तचित्तात्खयममलात् । यद्येवं व्यपगतसकलविकल्पो बुद्धः कथमुपदिशतो वचनप्रवृत्तिरिति तु नाशङ्कथम् । चभ्रमणयोगेन निर्विकल्पेऽपि तायिनि । सम्भारावेगसामाद्देशना संप्रवर्तते" ॥
[८८३] व्याख्यातं च-"भगवति प्रत्यस्तसमस्तकल्पनाजालेऽपि प्रवर्तत एव पूर्वपुण्यज्ञानसम्भारवेगवशाद्देशना" [ ८८४ ] इति ।
अत्रेदमप्याहुः"तस्मिन् ध्यानसमापने चिन्तारत्नवदास्थिते। निःसरन्ति यथाकामं कुट्यादिभ्योऽपि देशनाः॥"
इति ।[८४३] व्याख्यातं च-"नैवासावुपदिशति किञ्चित् । सर्वदा निर्विकल्पकसमाधिस्थत्वात् किन्तु तदाधिपत्येन विचित्रधर्मदेशनाप्रतिभासा विज्ञप्तयो भव्यानां भवन्ति । यस्यां रात्रौ तथागतोऽमिसम्बुद्धो यस्यां च परिनिवृत्तः, अत्रान्तरे तथागतेन नैकमप्यक्षरं प्रव्याहृतम् , तत् कस्य हेतोः, सततसमाहितो हि तथागतः, अपि तु येऽक्षरदेशना वैनयिकाले तथागतस्य मुखादुष्णीषादूर्गायाः शब्दं निःसरन्तं भृण्वन्ति" [८४३] इति ।
कुव्यादिनिस्मृतानां च कस्मानाप्तोपदिष्टता। तदाधिपत्यभावेन यदा तासां प्रवर्तनम् ।[९२६] नचास्य मर्मभावः । तथाचोकम्"पश्चगत्यात्मसंसारबहिर्भावान मर्त्यता । बुद्धानामिष्यतेऽस्माभिनिर्माण तत्तथामतम्" ॥
इति [९१५] . . व्याख्यातं च-"नरकप्रेततिर्यगदेवमनुष्यभेदेन पञ्चगत्यात्मकः संसार, तदहिभूताब भगवन्त