________________
प्रस्तावना।
सौगतमताव
जयन्त्युत्तुगनिर्वाणसौधसोपानपतयः । अनुकूला विनेयानां मुनेः शाक्यस्य देशनाः ॥ अनाधारमनाधेयमनालम्बमनाविलम् । अनाद्यन्तं खसंवेद्यं विज्ञानं यत्तदद्वयम् ॥
इदमेव शिवद्वारे सर्वनैरात्म्यदर्शनम् । बालानां त्रासजननं पण्डितानां शिवावहम् ॥ ___ इह खल भारते प्रदेशे पुरा तरणिकिरणैरप्यनपनोद्यमाभ्यन्तरं तमो मानवानामपनयन्तो विज्ञा
नालोकप्रसरैनिःश्रेयसैकान्तानि दर्शनानि यथादर्शनमाविश्चक्रुः कतिचन मुनयः , परहितैकप्रवृत्तयो दयाहृदयाः । तत्र तर्कशलाकाअनोपसंस्कृतेन विलोचनेन तारणम् ।
मानसेन तत्त्वं परीक्षमाणाः परीक्षितानर्थान् दर्शनपथे प्रापयन्ति कतिचन तत्वदर्शिनः । अपरेत्वनादिनिधनमपौरुषेयं किमपि शब्दप्रमाणं वेदलक्षणं प्राधान्येन खीकृत्य तदनुकूलैस्तकस्तदेव प्रमाणमप्रकम्प्यमाख्यापयन्तः प्रवर्तन्ते तत्त्वरत्नपरीक्षायाम् । एवं द्विविधो वर्गस्तस्वदर्शिनाम् । यत्र प्रथमे अर्हत्सुगतादयः कणादकपिलादयश्च । द्वितीये भगवद्बादरायणादयः । .. इदमत्र सम्भाव्यते-तत्र ये कणादगौतमकपिलपतञ्जलयो न तेषां दृष्टिर्मुनेः शाक्यस्येवाद्वितीयतर्कशलाकाजनसुसंस्कृता, येनाप्तवचनकोटौ वेदमीश्वरोचरितलक्षणं गणयन्तस्त इमे कथमपि तेनानुकूल्यमापादयितुमिच्छन्तस्तद्वासनावासितचित्ता न प्रभवन्ति विशुद्धेन तर्कशलाकाजनेन दृष्टिमात्मनः सुसंस्कर्तुम् । अत एव तेषामादेशाः परीक्षकाणां प्रेक्षावतां न हृदयङ्गमा भवन्ति ।
अयं चादेशो भगवतशाक्यमुनेः"तापाच्छेदाच निकषात् सुवर्णमिव पण्डितैः। परीक्ष्य मिक्षवो ग्राह्यं मद्वचो न तु गौरवात् ॥” इति। तीथिकानां नेदृशं वचनम् । 'चोदनालक्षणोऽर्थो धर्मः', 'शास्त्रयोनित्वात्' इति तु तेषाम् । अयमपरो विभागस्तत्त्वदर्शिनां दर्शनकाराणाम् । आत्मानं नित्यमिच्छन्ति सर्व एव तु तीर्थिकाः । न तमिच्छत्यहकारात् भीतः शौद्धोदनिर्मुनिः॥ इदं च वचनमिह ज्ञापकम्"साहकारे मनसि न शमं याति जन्मप्रबन्धो नाहकारश्चलति हृदयादात्मदृष्टौ च सत्याम् । अन्यः शास्ता जगति भवतो नास्ति नैरात्म्यवादी
नान्यस्तस्मादुपशमविधेस्त्वन्मतादस्ति मार्गः ॥” इति । [ त० ५० ९०५] इदं च सौगतं दर्शनं शाक्यमुनेः प्रागपि काश्यपकनकमुनिप्रभृतिभिस्तथागतैस्सर्वतः प्रवर्तितं न
शाक्योपशम् । परं कालगतिवैचित्र्याद्विरलप्रचार प्रक्षीणप्रायं भगवता बुद्धन
शाक्येन मुनिना कृपापीयूषवर्षेणेव उपदेशवर्षेण प्रफुल्लितसहकारवनमिव नवोचीनता। लामोडविस्तारं प्राकव्यमानीतमिति शाक्यदर्शनमुच्यते । दर्शनस्यास्य सूक्ष्म खरूपमन्यते च छान्दोग्ये-'तद्वैत आहुरसदेवेदमप्र आसीत्' इति । तद्विज्ञायते सौगतानां दर्शनमूलमाशयमेदः प्रबहता प्रचलितपारम्पर्यमूलस्तदा तदा नौपनिषदसमयतस्समनन्तरोपक्रमो भवितुमर्हति ।
सागतमतखा