SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ 324 [नायक सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप mmammmmmmmmwwwmar ... ... ...mar -- ~ ~~~mmar तत्त्वमुक्ताकलापः श्रुत्या तबोधयत्नावभिदधति यदि क्षम्यतामेवमिच्छा निर्वाह्यं त्वाप्तकामप्रभृतिवचनमप्यान्यपर्योपरुद्धम् ॥ ७८॥ सर्वार्थसिद्धिः यथाश्रुतिबलादीश्वरज्ञानप्रयत्नस्थापन शङ्कते-श्रुत्येति । तथा 'सोऽकामयत' इत्यादिश्रुति'बलात्तदिच्छाऽपि स्वीक्रियतामित्याह-क्षम्यतामिति । नन्वाप्तकामत्वपूर्णत्वादिश्रुतिस्मृतिशतैरिच्छाराहित्यमीश्वरस्य सिध्येदित्यत्राह -निर्वाह्यमिति । तुश्शङ्कानिवृत्त्यर्थः । अयं भावःआप्तकामशब्दस्तावदीशितुरष्टव्याभावमिच्छारहित्यं वा न ब्रूते । अत्र कामशब्दस्य काम्यपरत्वे कामनापरत्वे वा तत्प्राप्तिवचनतस्तन्निषेधायोगात् । अत इष्ट सर्वमस्य प्राप्तमेव भवतीति तात्पर्य ग्राह्यम् । नित्यानां वा योग्यानां प्राप्तत्वं प्रत्येतव्यम् । अत एव पूर्णशब्दोऽपि आनन्ददायिनी धर्मिसिद्धयसिद्धिग्रन्थमवतारिकाशेष व्याचक्षते । नन्वन्यतरस्य निर्वाह्यत्वे 'सोऽकामयत'इत्याद्यवान्यपरतया निर्वाह्यं किं न स्यादित्यत्राह-अयं भाव इति । प्रतिज्ञातार्थमुपपादयति--अत्रेति । आप्तशब्दस्याप्लव्याप्तौ इत्यस्माद्वयुत्पत्तेरिति भावः । प्राप्तमेव भवतीति । यदाउपेक्षते तदैव प्राप्त भवति, न तु विलम्बत इत्यर्थः । ननु प्राप्तशब्दम्य प्राप्ततुल्यतायां पर्यवसानादमुख्यत्वं दोष इत्यत्राह-नित्यानां वेति । नित्यानि योग्यानि अपहतपाप्मत्वकल्याणगुणादीनि । 'सदा पूर्णः' 'पूर्णस्य पूर्णः' इत्यादिनिर्वाहमाह-अत एवेति । ननु निर्गुणवाक्य लादिच्छा-पा. ग्राह्यम् । अनित्याना-पा वा भोग्याना-पा.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy