________________
सरः ३] सति दोषसाम्ये परत्वमात्रेण शास्त्रस्य प्रत्यक्षबाधकत्वेऽतिप्रसङ्गकथनम् 257
तत्त्वमुक्ताकलापः दोषज्ञानं तु मा भूदविदुषि पुरुषे वस्तुतस्त्वन्यथा तत् ।
निर्दोषत्वाभिमन्तृस्वसमयिमतिभिः किं न मिथ्याकृतान्ताः
सर्वार्थसिद्धिः बलीयस्त्व'मुत्पादयितुं शक्यम् । अनाप्तवाक्यबाधिते रज्जुस तदनाप्तत्वपरामर्शिनस्तद्भयं पुनरनुषज्यते । इह त्वादावेव दोषमूलत्वाविशेषरिशक्षितः प्रतिसंहितश्चेति न परबलीयस्त्वभावनावकाश इति । दोषपरामर्शाभावमन्वारुह्यापि दूषयति-दोषज्ञानमिति । तुः वैपरीत्यद्योतकः । वस्तुतस्त्विति । अत्र तुः विदुषि तद्धीसंभवद्योतनार्थः । दोष एव ह्ययथार्थधातुः; तज्ज्ञानं तु तद्विस्रम्भनिवर्तकम् । दुष्टस्यापि बोधस्य दोषपरामर्शाभावमात्रात् वस्तुस्थितिवपरीत्यव्यवस्थापकत्वेऽतिप्रसङ्गमाह-निर्दोषत्वेति । सर्वे हि वादिनः स्वसिद्धान्तस्थापक निर्दोषमभिमन्यन्ते । नच तत्तथ्यम् ; नच तथातथा भिद्येत वस्तुगतिः ।
आनन्ददायिनी बाधकत्वमित्याह-अनाप्तवाक्येति। नन्वत्रापि दोष मूलत्वाज्ञानमस्त्वित्यत्राह-इह विति । शिक्षितः उपदिष्टः । प्रतिसंहितः प्रकर्षण युक्तया निश्चितः । दोष एवेति । बाधो नाम विषयापहारः भ्रान्तित्वाज्ञानमात्रेण भ्रान्त्या विषयापहारो न भवतीति न बाधकत्वमित्यर्थः। तद्विस्रम्भेति । दोषमलत्वज्ञाने नाप्रामाण्यबुद्धया प्रामाण्य बुद्धि
1 मुपपाद-पा. ते च रज्जु-पा. ३ तद्विभ्रमनि-पा. सर्वेऽपि वादि-पा. 5 मूलत्वात् ज्ञान-ग. नाप्रमाबु-ग. ' बुद्धिरिति वर्तते-ग.
SARVARTHA VOL. IV.
1