________________
श्रीः एतत्सम्पुटगततत्त्वमुक्ताकलापस्थनायकसरगतश्लोकाः
आगमिकेश्वरसिद्धिः * व्याप्तयाद्यव्याकुलाभिः - श्रुतिभिरधिगतो विश्वनेता स विश्वं क्रीडाकारुण्यतन्त्रः सृजति समतया जीवकर्मानुरूपम् । 11 रोषोऽपि प्रीतये स्यात्सुनिरसविषयस्तस्य निस्सीमशक्तः 13 स्वेच्छायां सर्वसिद्धिं वदति भगवतोऽवाप्तकामत्ववादः ॥ १ ॥
ईश्वरस्य निर्बाधत्वम् 18 अप्रत्यक्षः परात्मा तदिह न घटते धातुरध्यक्षबाधा योग्यादृष्टेरभावान्न खलु न भवता ' स्वीकृतस्स्वेतरात्मा । 20 तस्मिन् देहानपेक्षे श्रुतिभिर (घिगते) वसिते देहबाधान्न बाधो वेदेभ्यो नानुमान 21 न च पुरुषवचस्तिष्ठते बद्धवैरम् ॥ २ ॥
ब्रह्मणोऽवाच्यत्वावेद्यत्वपरिहार 22 वाच्यत्वं वेद्यतां च स्वयमभिदधति ब्रह्मणोऽनुश्रवान्ताः 25 वाक्चित्तागोचरत्वश्रुतिरपि हि परिच्छित्त्यभावप्रयुक्ता । 28 नो चेत्पूर्वापरोक्तिस्ववचनकलहस्सर्ववेदान्तबाधस्तसिद्धिहेतुभिश्चत्प्रसजति 27 विहतिमिसाध्यादिशब्दैः ॥ ३ ॥
सद्ब्रह्मादिशब्दानां लक्षकत्वानुपपत्तिः 29 नित्यं ब्रह्मादिशब्दा निरुपधिकसतो लक्षका इत्ययुक्तं 30 मुख्यस्यान्यस्य हानेन च निपुणधियो मुख्यमिच्छन्ति लक्ष्यम् ।
* अत्र सर्वत्र पङ्केरुपारे दृश्यमानाः सख्याः तत्तत्पुटसख्यासूचिका इति बोध्यम्. SARVARTHA VOL. IV.