________________
सव्याख्य सर्वार्थसिद्धिसहिततच्च मुक्ताकलापे
सर्वार्थसिद्धिः
;
मैवम् : क्षित्यादिकं सकर्तृकमित्यत्र न हि कर्तृसंबन्धमात्रं साध्यम्, सिद्धसाधनत्वात् ; सन्ति हि त्वत्पक्षे कुम्भादिकर्तारश्चेतनाः स्वरूपतस्सर्वत्र संबद्धाश्च तैः क्षित्यादयः । अस्मत्पक्षेऽपि - अङ्गुलस्याष्टभागोऽपि न सोऽस्ति द्विजसत्तम । न सन्ति प्राणिनो यत्र कर्मबन्धनिबन्धनाः ॥ दारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानपि ।
102
[नायक
इत्यादिभिस्सर्वमचेतनं पुण्यपापकर्तचेतनमिश्रम् । अतस्स कर्तृकमिति चेतनव्यापारपूर्वकत्वं साध्यम् । तत्र व्यापारपूर्वकत्वनिवृतिमात्रेण कादाचित्कत्वनिवृत्त्युपपत्तौ तद्विशेषणवैयर्थ्यं स्यात् । व्याप्त्युप
आनन्ददायिनी
उपाधौ सति यत्प्रतिसाघनं उपाधिप्रयुक्तप्रतिसाधनं उपाध्यभाव इति यावत् । केचित्तु - उपाधौ प्रतिसाधने चेति चकारमपि पठित्वोभयत्र वैयर्थ्यमाहुः । युक्तं च तथा; अतो निरुपाधिकमित्याद्यपि युज्यते । अनुकूलतर्कसाहित्य एव व्याप्तिर्न साहचर्यमात्रात् । तथा च कर्तृव्यापारजन्यत्वाभावे कार्यत्वं न स्थादिति तर्कानुग्रहादेव व्याप्तयादि - सिद्धिरिति वक्तव्यं, तदेव न " संभवति, शररािजन्यत्व उक्तदूषणग्रासादित्याह – मैवमित्यादिना । सन्ति हीति । विभुत्वादिति भावः । ननु त्वत्पक्षे जीवानामणुत्वमित्यत्राह - अस्मत्पक्ष इति । विष्णुपुराणादिषु व्याप्त्यभिधानादिति भावः । कर्तृव्यापारपूर्वकत्वं कर्तृव्यापारजन्यत्वम् । विशेषणवैयर्थ्यमिति । कर्तृभागवैयर्थ्यम् । उदयनोक्त
2
3
1
1 कच्चेतन - पा. 2 संभवतीति - ग. कर्तृव्यापारेति पाठाभिप्रायेणेदं स्यात्.
3 तत्पक्षे - ग. 4 मूले चेतनव्यापारेत्यत्र