________________
[ २४ ] आ ऐशानात् ॥७॥ शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः ॥ ८ ॥ परेऽप्रवीचाराः ॥ ९ ॥ भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवात. स्तानतोदधिद्वीपदिकुमाराः ॥ १० ॥ व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ॥११॥ ज्योतिष्काः सूर्या चन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च ॥ १२ ॥ मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥ १३ ॥ तस्कृतः कालविभागः ॥ १४ ।। बहिरवस्थिताः ॥ १५॥ वैमानिकाः ॥१६॥ कल्पोपपन्नाः कल्पातीताच ॥ १७ ॥ उपर्युपरि ॥ १८ ॥ सौधम्मै शानसानकुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापिष्टशुक्रमहाशुक्रशतारसहस्रारेयानतप्राणतयोरारणाच्युतयोर्नवसु अवेयकेषु विजयवैजन्त. जयन्तापराजितेषु सर्वार्थसिद्धौ च ॥ १९॥ स्थितिप्रभावसुखयुतिलेश्या विशुद्धीन्द्रियावधि विषयतोऽधिकाः ॥ २० ॥ गतिशरीरपरिग्रहाऽभिमानतो हीनाः ॥ २१ ॥ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥२२॥ प्राग्वेयकेभ्यः कल्पाः ॥ २३ ॥ ब्रह्मलोकालया लौकान्तिकाः ॥ २४ ॥ सारस्वतादित्यवह्नयरुणगर्दतोयतुषिताव्याबाधारिष्टाश्च ॥ २५ ॥ विजयादिषु द्विचरमाः ॥२६॥
औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः॥ २७ ॥ स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमा हीनमिताः।।२८॥ सौधर्मशानयोः सागरोपमेऽधिके ॥२९॥ सानत्कुमारमाहेन्द्रयोः सप्त ॥ ३० ॥ त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि तु ॥३१॥ आरणाच्युतादुर्च मेकैकेन नवसु |वेयकेपु विजयादिषु