________________
को. २४]
अहङ्कारलक्षणम् ।
४३
ऐश्वर्यमपि बुद्धिधमों, यतो ऽणिमादिप्रादुर्भावः । ( १ ) अत्राणिमाSणुभावो, यतः शिलामपि प्रविशति । ( २ ) लघिमा ( १४७ ) ऐश्वर्यनिरूपणे लघुभावः, यतः सूर्यमरीचीनालम्ब्य सूर्यलोकं यति । अष्टसिद्धिनिरूपणम् ॥ ( ३ ) गरिमा गुरुभाव:, यतो गुरुर्भवति । ( ४ ) महिमा महतो भावः यतो महान् भवति । (५) प्राप्तिः, यतो ऽङ्गुल्यप्रेण स्पृशति चन्द्रमसम् । ( ६ ) प्राकाम्यमिच्छानभिघातो यतो, भूमाबुन्मज्जति निमज्जति च यथोदके । ( ७ ) वशित्वम्, यतो भूतभौतिकं वशीभवत्यवश्यम् । ईशित्वम् यतो भूतभौतिकानां प्रभवस्थितिमीष्ट । (८) यच्च कामावसायित्वम् मा सत्यसङ्कल्पता, येन यथाऽस्य सङ्कल्पो भवति भूतेषु तथैव भूतानि भवन्ति । अन्येषां मनुष्याणां निश्वयाः निश्चेतव्यमनुविधीयन्ते योगिनस्तु निश्चेतव्याः पदार्थाः निश्चयम् । इति चत्वारः साविका बुद्धिधर्माः ॥ ( १४८) बुद्धेस्तामसा धर्मा धर्मादयः ॥
1
अहङ्कारस्य लक्षणमाह
अभिमानो ऽहङ्कारः, तस्माद् द्विविधः प्रवर्तते सर्गः ।
एकादशकश्च गणस्तन्मात्रपञ्चकश्चैव ॥ २४ ॥
(१४९) अहङ्कारस्य लक्षणम् ॥
तामसास्तु तद्विपरीता बुद्धिधर्माः । अधर्माज्ञानावैराग्यानैश्वर्याभिधानाश्चत्वारः इत्यर्थः ॥ २३ ॥
>
6
" अभिमान " इति । ' अभिमानो ऽहङ्कारः ' । यत् खल्वालोचितम्मतं च तत्र ' अहमधिकृत ः ', ' शक्तः खल्वहमत्र', 'मदर्था एवामी विषयाः, मत्तो नान्यो ऽत्राधिकृतः कश्चिदस्ति', अतो ऽहमस्मि' इति यो ऽभिमानः सो साधारण व्यापारत्वादहङ्कारः । तमुपजीव्य हि बुद्धिरध्यवस्यति - ' कर्तव्यमेतन्मया ' इति निश्चयं करोति ॥
तस्य कार्यभेदमाह - "तस्माद् द्विविधः प्रवर्तते सर्गः” इति । प्रकारद्वयमाह " एकादशकश्च गण. " इन्द्रियाह्नः तन्मात्रपञ्चकश्चैव । द्विविध एव सर्गे ऽहङ्कारात् न त्वन्य इति 'एव' - कारेणावधारयति ॥ २४ ॥
( १५० ) अहङ्कारस्य कार्यभेदाः ॥
·
"