________________
पुरुषास्तित्वसाधनम् ।
[ai, a.
(C
स्यादेतत्-शयनासनादयः संघाताः संहतशरीरार्था दृष्टाः, न स्वात्मानमव्यक्ताद्यतिरिक्तं प्रति परार्थाः । तस्मात् संघातान्तरमेव परं गमयेयुः, त स्वसंहतात्मानम् इत्यत आहत्रिगुणादिविपर्ययात् " इति । अयमभिप्रायःसंघातान्तरार्थत्वे हि तस्यापि संघातत्वात् तेनापि संघातान्तरार्थेन भवितव्यम् ; एवं तेन तेनेत्यनवस्था स्यात् । न च व्यवस्थायां सत्यामनवस्था युक्ता, कल्पनागौरवप्रसङ्गात् । न च ' प्रमाणबलेन कल्पनागौरवमपि मृष्यत ' इति युक्तम्, संहतत्वस्य पारार्थ्य मात्रेणान्वयात् । दृष्टान्तदृष्टपर्वधर्मानुरोधेन त्वनुमानमिच्छतः सर्वानुमानोच्छंद्रप्रसङ्ग इत्युपपादितं न्यायवार्तिकतात्पर्यटीकायामस्माभिः । तस्मादनवस्थाभिया ऽस्यासंघातत्वमिच्छता ऽत्रिगुणत्वं विवेकित्वमविषयत्वमसामान्युत्वं चेतनत्वमप्रसवधर्मित्वञ्चाभ्युपेयम् । त्रिगुणत्वादयो हि धर्माः संहतत्वेन व्याप्ताः । तत्संहतत्वमस्मिन् परे व्यावर्तमानं त्रैगुण्यादि व्यावर्तयति ब्राह्मणत्वमिव व्यावर्तमानं कठत्वादिकम् । तस्मादाचार्येण त्रिगुणादिविपर्ययात्' इति वदता ऽसंहतः परो विवक्षितः, स चात्मेति सिद्धम् ॥
इतश्च परः पुरुषोऽस्ति - " अधिष्ठानात् ", त्रिगुणात्मकानामधिष्ठीयमानत्वात् | यद्यत्सुखदुःखमोहात्मकं तत्सर्वं परेणाधिष्ठीय( १२२ ) त्रिगुणात्मका- मानं दृष्टम्, यथा रथादिर्यन्त्रादिभिः । सुखदुःखनामधिष्ठीयमानत्वादिति मोहात्मकं चेदं बुद्ध्यादि, तस्मादेतदपि परेणाधिष्ठाद्वितीयं साधनम् (२ ) ॥ तव्यम् । स च परस्त्रैगुण्यादन्य भात्मेति ॥ इतश्चास्ति पुरुषो - "भोक्तृभावात् " । भोक्तृभावेन भोग्ये सुखदुःखे उपलक्षयति । भोग्ये हि सुखदुःखे अनुकूलप्रतिकूलवेदनीये प्रत्यात्ममनुभूयेते । तेनानयोरनुकूलनीयेन प्रतिकूलनीयेन च केनचिदप्यन्येन भवितव्यम् । न चानुकूलनीयाः प्रतिकूलनीया वा बुद्ध्यादयः, तेषां सुखदुःखाद्यात्मक
३६
( १२१ ) संघातानां संघातान्तरार्थत्वे ऽनवस्थात्रिगुणादिविपर्य
यश्च ॥
८
( १२३ ) भोक्तृभावादिति तृतीयम् ( ३ ) ॥
-
१. सुखदुःखादयो भोगाः । अतो भोक्तरि पुरुषे सुखदुःखाद्यात्मकत्वन्न सम्भवति । तस्मात् पुरुषे त्रैगुण्यविपर्ययः ॥