________________
को. १२ ] गुणानां क्रियाः।
२९ स्वरूपमेषामुक्त्वा प्रयोजनमाह- " प्रकाशप्रवृत्तिनियमार्थाः" इति ।
यो अत्रापि यथासंख्यमेव । रजः प्रवर्तकत्वात् सर्वत्र लघ जनम यथासंख्यं प्रकाश- सत्त्वं प्रवर्तयेत् , यदि तमसा गुरुणा न नियम्येत । प्रवृत्तिनियमरूपम् ॥ तमोनियतन्तु क्वचिदेव प्रवर्तयतीति भवति तमो
नियमार्थम् ॥ प्रयोजनमुक्त्वा क्रियामाह- " अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च"
इति । वृत्तिः क्रिया, सा च प्रत्येकमभिसम्बध्यते । (१०१) गुणानां क्रियाः, 'अन्योन्याभिभववृत्तयः । एषामन्यतमेनार्थवशादुअन्योन्याभिभव- अन्यो- भूतेनान्यदभिभूयते । तथा हि सत्त्वं रजस्तमसी न्यापेक्षा-अन्योन्यापेक्ष- अभिभूय शान्तामात्मनो वृत्तिं प्रतिलभते, एवं रजः जनन-अन्योन्यमिथुन- सत्त्वतमसी अभिभूय घोराम् , एवं तमः सत्त्वरजसी वृत्तिरूपाः ॥ अभिभूय मृढामिति । 'अन्योन्याश्रयवृत्तयः' ।
यद्यप्याधाराधेयभावेन नायमर्थो घटते, तथा ऽपि यदपेक्षया यस्य क्रिया स तस्याश्रयः । तथा हि, सत्त्वं प्रवृत्ति नियमावाश्रित्य रजस्तमसोः प्रकाशेनोपकरोति, रजः प्रकाशनियमावाश्रित्य प्रवृत्त्येतरयोः, तमः प्रकाशप्रवृत्ती आश्रित्य नियमेनेतरयोरिति । 'अन्योन्यजननवृत्तयः । अन्यतमो ऽन्यतममपेक्ष्य जनयति । जननं च परिणामः, स च गुणानां सहशरूपः । अत एव न हेतुमत्त्वम् , तत्त्वान्तरस्य हेतोरसम्भवात् ; नाप्य. निस्यत्वम् , तत्त्वान्तरे लयाभावात् । अन्योन्यमिथुनवृत्तयः । अन्योन्यसहचराः, अधिनाभाववृत्तय इति यावत् । 'चः' समुच्चये । भवति चात्रागमः
“ अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्रगामिनः । रजसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः ॥ तमसश्चापि मिथुने ते सरवरजसी उभे । उभयोः सत्वरजसोमिथुनं तम इच्यते ॥ नैषामादिः सम्प्रयोगो वियोगो वोपलभ्यते” ॥ इति देवी
भागवते-३८. ॥ १२ ॥