________________
२४
कारिकोपसंहारः। [सां. त. तस्मादियं पटोत्पत्तिः स्वकारणसमवायो वा, स्वसत्तासमवायो वा,उभयथा
ऽपि नोत्पद्यते, अथ च तदर्थानि कारणानि व्यापार्यन्ते । (७५) पटोत्पत्तौ सत्या- एवं सत एव पटादेराविर्भावाय कारणापेक्षेप्युपपनम् ।। मपि कारणव्यापारा- न च पटरूपेण कारणानां सम्बन्धः, तद्रूपस्याक्रियापेक्षा ॥
त्वात् , क्रियासम्बन्धित्वाच्च कारणानाम् , अन्यथा
कारणात्वाभावात् ॥ (७६) कारिकोप
तस्मात् सत् कार्यमिति पुष्कलम् ॥ ९ ॥ संहारः॥
" १. पटोत्पत्तौ सत्यामपि कारणव्यापारस्य प्रयोजनमित्यभिप्रेत्याह- 'तस्मात् ' इति । न्यायमतेऽपि पटोत्पत्तिः स्वकारणभूततन्तुभिरयुतसिद्धा, स्वसत्तामात्रेणायुतसिद्धा वा भवितुमर्हति । उभयथाऽपि तु कारणव्यापारमन्तरेण न पटोत्पत्तिरुपपद्यते । न चाभिव्यक्तेरपि जन्यत्वे सत्कार्यबाधोऽनवस्था चेत्यादि वाच्यम् । व्यवहारोपयोगितत्तत्कार्याभिव्यक्तेस्तत्तत्कार्यनिष्ठसत्त्वगुणरूपतया नित्यत्वेऽपि तमसा प्रतिबद्धत्वान्न व्यवहारोपयोगित्वम् । अभिव्यञ्जकसामग्रथा तु तमसः प्रतिबन्धः । उत्तेजकस्याप्युत्तेजनमात्राङ्गीकारान्न सत्कार्यबाधः । कार्यकारणयोर्भेदेऽपि व्यवहारक्षमता कार्यात्मनाभिव्यक्तस्यैव नान्यथा इत्यादि चन्द्रिकायां स्पष्टम् ॥ " उपसंहरति 'तस्मादिति' उत्पत्त्युत्पत्तेरङ्गीकारेऽनवस्थाप्रसङ्गेनानुत्पन्नाया अप्युत्पत्तेः कारणव्यापारापेक्षित्ववदस्मन्मतेऽपि सत एव घटस्याविर्भावाय कारणव्यापारापेक्षा । घटोत्पत्तिमङ्गीकुर्वाणेन घटे कारणव्यापारापेक्षित्वस्य प्रयोज्यत्वरूपस्यैवादरणीयतयाऽऽविर्भावे एव तदङ्गीकारमात्रेण निर्वाहे कृतमुत्पत्यङ्गीकारेण, युक्तं चैतत् , अन्यथोत्पत्तिवादे च कार्यस्येव कारणसापेक्षतया तस्य च क्रियात्वाभावे क्रियासम्बन्धित्वप्रयुक्तकारकत्वकारणत्वव्यवहारानुपपत्तेः सत्कार्यवाद एव साधीयानित्याशयः” इति केचित् । २. न्यायमते कारणस्य सत्तायाः सकलस्य सम. वायस्य नित्यत्वादित्याशयः । 'नोत्पद्यते', अपि तु आविर्भवत्येवेति शेषः । ३. भवन्मतेऽपीति शेषः ॥ ४. ननु 'अस्मत्पक्षे-पटरूपाणि कारणानि कुर्वन्ति इति सदुक्तिस्त्वत्पक्षबाधिका' इति चेत् , तत्राह " न च” इति । तद्रूपं चानित्यमेवेति भवति तस्योत्पत्तिरिति हृदयम् ।