________________
को. ५]
अर्थापत्तेरनुमानेऽन्तर्भावः ।
एवमर्थापत्तिरपि न प्रमाणान्तरम् । तथा हि-जीवतश्चैत्रस्य गृहाभावदर्शनेन
र बहिर्भावस्यादृष्टस्य कल्पनमर्थापत्तिरभिमता वृद्धा
। नाम् । साऽप्यनुमानमेव । यदा खल्वव्यापकः सझेकत्र रनुमाने ऽन्तर्भावः ॥
' नास्ति तदाऽन्यत्रास्ति । यदाऽव्यापक एकत्रास्ति तदा. ऽन्यत्र नास्तीति सुकरः स्वशरीरे व्याप्तिग्रहः । तथा च सतो गृहाभावदर्शनेन लिङ्गेन बहिर्भावदर्शनमनुमानमेव । न च चैत्रस्य कचित्सत्त्वेन गृहाभावः शक्योऽपह्नोतुम् , येनासिद्धो गहाभावो बहिर्भावे न हेतुः स्यात् । न च गृहाभावेन वा सत्त्वमपह्वयते, येन सत्त्वमेवानुपपद्यमानमात्मानं न बहिरवस्थापयेत् । तथा हि-चैत्रस्य गृहासत्त्वेन सत्त्वमात्रं विरुध्यते, गृहसत्त्वं वा ? न तावद्यत्र वचन सत्त्वस्यास्ति विरोधो गहासत्त्वेन, भिन्न विषयत्वात् । “देशसामान्येन गृहविशेषाक्षेपोऽपि पाक्षिक इति समानविषयतया विरोध" इति चेत् , न, प्रमाणविनिश्चितस्य गृहे ऽसत्त्वस्य पाक्षिकतया सांशयिकेन गृहसत्त्वेन प्रतिक्षेपायोगात् । नापि प्रमाणनिश्चितो गहाभावः पाक्षिकमस्य गहसत्त्वं प्रतिक्षिपन् सत्त्वमपि प्रतिक्षेप्तुं सांशयिकत्वं च व्यपनेतुमर्हतीति युक्तम् ।
१. “देशसामान्यप्रविष्टग्रह विशेषमादाय समानविषयतया विरोध इति शङ्कते" इति राघवानन्दाः । सत्त्वं हि गृहबहिस्साधारणतया सामान्यप्रवृत्तं विशेषगृहासत्त्वेन विरुद्धमिति शङ्काकृद्भवः । क्वचिदस्तीति कथनेन स्थलविशेषविनिगमनाविरहात् गृहाभावोऽपि बाध्यते, गृहस्यापि क्वचित्पदेऽन्तर्भावात् , अतएव गृहसत्त्वेन विरोध इति हृदयम् ।
"देशसामान्येनेति" सामान्यस्य साधारणधर्मतया तज्ज्ञानस्य संशयहेतुतया उच्चस्तरत्वज्ञानेन स्थाणुत्वपुरुषत्वयोरिव गृहबहिर्देशयोराधेयतासम्बन्धेन चैत्रे संशये गृहत्वावच्छिन्नप्रकारकज्ञानस्य गृहाभावज्ञानविरोधितया गृहाभावरूपहेतोञ्जनं न सम्भवतीत्यभिप्रायः । शब्दार्थस्तु " देशसामान्येन” देशसामान्यज्ञानेन, “ गृहविशेषाक्षेपः” गृहात्मकविशेषसम्बन्धः, "पाक्षिकः" संशयविषयः, "समानविषयतया" गृहाभावप्रतियोगितावच्छेदकावच्छिन्नतया, “ विरोधः ” एकसत्त्वे ऽपरासत्त्वनियमः।
" प्रमाणेति " प्रतियोगितावच्छेदकावच्छिन्नप्रकारकनिश्चयस्यैवाभावधीहेतुतया संशयस्य न विरोधितेत्यभिसन्धिः, अक्षरार्थस्तु स्पष्टः ।