________________
तत्त्वकौमुदी.
(सांख्य.)
(१) मङ्गलाचरणम् ॥ अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां नमामः । मजा ये तां जुषमाणां भजन्ते जहत्येनां भुक्तभोगां नुमस्तान् ॥ १॥ कपिलाय महामुनये मुनये शिष्याय तस्य चासुरये । पञ्चशिखाय तथेश्वरकृष्णायैतान्नमस्यामः ॥ २ ॥ इह खलु प्रतिपिस्सितमथं प्रतिपादयन् प्रतिपादयिताऽवधेयवचनो
भवति प्रेक्षावताम् । अप्रतिपित्सितमर्थं तु प्रतिपाद(२) शास्त्रविषयक- यन् ' नायं लौकिको नापि परीक्षक ' इति प्रेक्षाव. जिज्ञासावतरणम् ॥ । द्भिरुन्मत्तवदुपेक्ष्येत । स चैषां प्रतिपित्सितोऽर्थों यो
ज्ञातः सन् परमपुरुषार्थाय कल्पते । इति प्रारिप्सितशास्त्रविषयज्ञानस्य परमपुरुषार्थसाधनहेतुत्वात् तद्विषयजिज्ञासामवतारयति
दुःखत्रयाभिघाताज्जिज्ञासा तदपघातके हेतौ ।
दृष्टे साऽपार्था चेन्नैकान्तात्यन्ततोऽभावात् ॥ १॥ " दुःख-" इति । एवं हि शास्त्रविषयो न जिज्ञास्येत, यदि दुःखं नाम
जगति न स्यात् , सद्वा न जिहासितम् , जिहासितं (३) शास्त्रविषयक- वा अशक्यसमुच्छेदम् । ( अशक्यसमुच्छेदता च द्वेधा, जिज्ञासाया आवश्य. दुःखस्य नित्यत्वात् , तदुच्छेदोपायापरिज्ञानाद्वा)। कत्वशङ्का ॥ शक्यसमुच्छेदत्वेऽपि च शास्त्रविषयस्य ज्ञानस्यानु
पायभूतस्वाद्वा, सुकरस्योपायान्तरस्य सद्भावाद्वा ॥ त. कौ. १