________________
नवविधतुष्टिवर्णनम् ।
[ सां. त. या तु,-'न प्रकृतेर्न कालान्नाप्युपादानाद्विवेकख्यातिः, अपि तु भाग्यादेव ।
। अत एव मदालसापत्यान्यतिबालानि मातुरुपदेशादेव ( २२२ ) चतुर्थी भा. ग्याख्या वृष्टिः ॥
विवेकख्यातिमन्ति मुक्तानि बभूवुः, तस्माख्याद्भाग्य
मेव हेतुर्नान्यत्'-इति उपदेशे या तुष्टिः सा भाग्याख्या 'वृष्टिः' उच्यते ॥ बाह्या दर्शयति-" बाह्याः" तुष्टयः " विषयोपरमात् , पञ्च" । याः
खल्वनात्मनः प्रकृतिमहदहङ्कारादीनात्मेत्यभिमन्य ( २२३ ) पञ्चविधबाह्य- मानस्य वैराग्ये सति तुष्टयस्ता बाह्याः, आत्मज्ञानातुष्टिकथनम् ॥ भाव सत्यनात्मानमधिकृत्य प्रवृत्तेरिति । ताश्च वैराग्य
सति तुष्टय इति वैराग्यहेतुपन्चत्वाद्वैराग्याण्यपि पन्च, तत्पन्चत्वात् तुष्टयः पञ्चेति । उपरम्यते ऽनेनेत्युपरमो वैराग्यम् , विषयादुपरमो विषयोपरमः । विषया भोग्याः शब्दादयः पन्च, उपरमा अपि पञ्च ॥
तथा हि-अर्जनरक्षणक्षयभोगहिंसादोषदर्शनहेतु जन्मानः पञ्चोपरमा ( २२४ ) बाह्यतुष्टिषु भवन्ति । तथा हि-सेवादयो धनार्जनोपायाः, ते च प्रथमा, पारम् ॥ सेवकादीन् दुःखाकुर्वन्ति,
" दृप्यदुरीश्वरद्वाःस्थदण्डिचण्डार्धचन्द्रजाम् ।
वेदनां भावयन् प्राज्ञः कः सेवास्वनुषजते" ॥ एवमन्ये ऽप्यर्जनोपायाः दुःखा इति विषयोपरमे या तुष्टिः सैषा 'पारम्' उच्यते ।।
तथा ऽर्जितन्धनम् राजैकागारिकाग्निजलौघादिभ्यो विनक्ष्यतीति तद्रक्षणे (२२५ ) द्वितीया महदुःखमिति भावयतो विषयोपरमे या तुष्टिः सा सुपारम् ॥ द्वितीया 'सुपारम्' उच्यते ॥
तथा महता ऽऽयासेनार्जितन्धनं भुज्यमानं क्षीयते इति तत्प्रक्षयम्भावयता (२२६ ) तृतीया पारा- विषयोपरमे या तुष्टिः सा तृतीया 'पारापारम्' पारम् ॥ • उच्यते ॥
१. एकागारिकः-चौरः।