________________
सर्वेभ्यो बुद्धेः प्राधान्यम् ।
५३
प्रधानम् । बुद्धिश्चास्य साक्षात्साधनम्, तस्मात्सव प्रधानम् । यथा सर्वाध्यक्षः साक्षाद्राजार्थसाधनतया प्रधानमितरे तु ग्रामाध्यक्षादयस्तम्प्रति गुणभूताः । बुद्धिर्हि पुरुषसन्निधानात् तच्छायापत्त्या तद्रूपेव सर्वविषयोपभोगं पुरुषस्य साधयति । सुखदु:खानुभवो हि भोगः, स च बुद्धौ, बुद्धिश्च पुरुषरूपैवेति, सा च पुरुषमुपभोजयति । यथा ऽर्थालोचनसङ्कल्पाभिमानाश्च तत्तद्रूपपरिणामेन बुद्धावुपसंक्रांताः तथेन्द्रियव्यापारा अपि बुद्धेरेव स्वव्यापारेणाध्यवसायेन सहैकव्यापारीभवन्ति, यथा स्त्रसैन्येन सह ग्रामाध्यक्षादिसैन्यं सर्वाध्यक्षस्य भवति । " सर्व " शब्दादिकं " प्रति " य " उपभोगः " “ पुरुषस्य " तं साधयति ॥
कौ. ३७-३८]
( १८२) बुद्धेः प्राधान्यसाधनम् - साक्षापुरुषार्थसाधनत्वात् ॥
""
ननु पुरुषस्य सर्वविषयोपभोगसम्पादिका यदि बुद्धिः तर्ह्यनिर्मोक्ष इत्यत आह--पश्चात् “ प्रधानपुरुषयोरन्तरं" विशेषं "विशिनष्टि" करोति यथौदनपाकं पचतीति, करणं च प्रतिपादनम् । ननु प्रधानपुरुषयोरन्तरस्य कृतकत्वादनित्यस्वम्, तत्कृतस्य मोक्षस्यानित्यत्वं स्यादित्यत आह-- “ विशिनष्टि " - ' प्रधानं सविकारमन्यदहमन्य ' इति विद्यमानमेवान्तरमविवेकेनाविद्यमानमिव बुद्धिर्बोधयति न तु करोति, येनानित्यत्वमित्यर्थः । अनेनापवर्गः पुरुषार्थो दर्शितः, " सूक्ष्मम् " दुर्लक्ष्यम् तदन्तरमित्यर्थः ॥ ३७ ॥
(१८३ ) पुरुषार्थस्याप वर्गस्य कृतकत्वादपि नानित्यत्वम्-करणस्यात्रबाधनार्थत्वात् ॥
D
-
तदेवं करणानि विभज्य विशेषाविशेषान् विभजते-
तन्मात्राण्यविशेषाः तेभ्यो भूतानि पश्च पश्चभ्यः ।
एते स्मृता विशेषाः, शान्ता घोराश्च मूढाश्च ॥ ३८ ॥
•
" तन्मात्राणि " इति । शब्दादितन्मात्राणि सूक्ष्माणि । न चैष ( १८४ ) अविशेष - शान्तत्वादिरस्ति उपभोगयोग्यो विशेष इति ( सूक्ष्म ) कथनम् ॥
मात्रशब्दार्थः ॥