________________
बाधसिद्धान्तः।
तौति बाधः पृथक्। प्रसिद्धव भाववति पक्षे व्यभिचारान्न तत्सिहिरिति चेत्, तयप्रसिद्धव भाववति सपक्षे व्यभिचारात तमपि न साधयेत् तदज्ञानातत्साधनेऽनुमितिरप्रमा स्यात् । अथ पक्षवृत्तेरन्यएव धूमादिः सपक्षे, तर्हि गोत्व-पृथिवीत्व-द्रव्यवादेअतः पक्षविशेष्यक-तदभावनिश्चयत्वेनापि तदनुमितौ प्रतिबन्धकत्वमावश्यकमित्यर्थः, तथाच तदभाववत्पक्ष एव पक्षविशेष्यक-तदनुमितौ बाधइति भावः । 'प्रसिद्धवझ्यभाववतीति प्रसिद्धवयभाववत्वेन विषयोकृतस्य पक्षतावच्छेदकावच्छिन्नस्य हेतौ वृत्तिमत्त्वज्ञानादित्यर्थः, 'न तसिद्धिरिति व्यभिचारज्ञानादेव न तंत्मिद्धिरित्यर्थः । गढाभिसन्धिमाह, 'तौति, 'अप्रसिद्धवयभाववतीति दृष्टान्ते अज्ञातस्य पक्षीयसाध्यस्याभाववतीत्यर्थः, 'यभिचारात्' हेतौ वृत्तित्वज्ञानात् । ननु यदैवाप्रसिद्धवयभाववत्त्वज्ञानं न सपक्षे तदैव तत्साधयेदित्यत
आह, तदज्ञानादिति, तत्साधने' तत्साधनसम्भवेऽपि, 'अनुमितिरप्रमा स्थादिति व्यभिचारिहेतुजन्यत्वेनानुमितिरप्रमा स्थादित्यर्थः, एतचापाततः व्यभिचारिलिजन्यत्वेऽपि विषयबाधाभावेनानुमितेरप्रमावासम्भवात्() अन्यथा घटो द्रव्यं सत्त्वादित्यादावण्यनुमितेरप्रमात्वप्रसङ्गादिति ध्येयं । 'अति, तथाच पक्षवृत्तिहेतौ पचौयसाध्यव्यभिचारज्ञानाभावात् तद्धेतकपक्षीयमाध्यानुमितौ न किमपि • बाधकमिति भावः । 'तहि तथापि, प्रसिद्धसास्नाद्येति पक्षवृत्तिमा(१) चप्रमावाभावसम्भवादिति का।