________________
६१.
बसिद्धिसिद्धान्तः।। प्रतिकूलतर्कानुकूलतर्काभावावुपजीव्यत्वे सति.स्वतोदूषकावपि न हेत्वाभासौ स्वरूपसतारेव प्रतिबन्धकत्वादित्युक्तम्। 6. इति श्रीमहङ्गेशपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानास्यदितीयखण्डे असिद्धिसिद्धान्तः।
धर्मप्रधानश्च निर्देशः, अप्रयोजकत्वमन्यथामिद्धत्ववेत्यर्थः । 'मोपाधी' सोपाधौ अपि उपाधिसमानाधिकरणे अपौति यावत्, 'नासिद्धौ' नासिद्धी, सर्वत्र प्रथमाद्विवचनं।
केचित्तु प्रतिकूलतर्कोऽनुकूलतर्काभावश्चासिद्दान्तर्गत इत्याडः तन्मतं निराकरोति, 'प्रतिकूलेति, ‘उपजीव्यत्वे मतौति अनुमित्यनुत्पादप्रयोजकत्वे सतीत्यर्थः, स्वतोदूषकावपौति व्याप्तिग्रहकार
भावावपौत्यर्थः, 'स्वरूपसतोरेव' ज्ञायमानत्वानवच्छित्रयोरेव, 'प्रतिबन्धकत्वादिनि व्याप्तिज्ञानकारणीभूताभावप्रतियोगित्वादित्यर्थः, ज्ञायमानत्वावच्छिन्नानुमिति-तत्कारण ज्ञानान्यतरकारणेभूताभावप्रतियोगित्वाश्रयस्यैव च हेत्वाभासत्वादिति भावः ।
इति श्रीमथुरानाथतर्कवागौश-विरचिते तत्त्वचिन्तामणिरहस्ये अनुमानाख्य-द्वितीयखण्डरहस्येऽमिद्धिमिद्धान्तरहस्यं सम्पूर्णम् ॥
118