________________
तत्वचिन्तामो
नियमः तस्मादनित्य इत्यभिधाने विशिष्य सिद्धतावगम्यते पूर्व साध्यतयोक्तस्य समर्थहेतुसम्बन्धेन पुनरुत्कीर्तनात् अन्यथा तईयात्। संशय-प्रयोजनादयत्ववयवलक्षणभावादेव नावयवाः किन्तु न्यायाङ्ग. देरपि प्रक्रान्तत्वेन तत्रापि तस्मादित्यस्यान्वयप्रसङ्गादित्यर्थः । ननु व्याप्यादौ लिङ्गज्ञाप्यत्वस्य बाधादेव तत्र तस्मादित्यस्यान्वयो न भविष्यतीत्यत पार, 'वादिवाक्ये चेति, 'चः' अप्यर्थे, तथाच वादिवाक्ये योग्यतयान्वयेऽप्यतिप्रसङ्गात् पूर्वप्रक्रान्ते व्याप्तिघटकप्रतियोगिलादौ तस्मादित्यस्यान्वयप्रमादित्यर्थः, प्रतियोगित्वादेरपि लिङ्गजाप्यत्वसम्भवादिति भावः । यद्यपि पूर्वोपस्थितं माध्यमेव विशेषतस्तथाशब्देन परामृष्टमित्युक्तौ न कश्चिद्दोषः, तथापि सादृश्यादिशकस्य तस्य वशित्वादिप्रकारेण बोधकतायामाधुनिकशक्षणापत्रैष प्रकारोयुक्त इति थेयं । मनु तथाशब्दस्येव तच्छब्दस्यापि पूर्वोपस्थितयावदस्तपरामर्थकत्वसम्भवेन तस्मादित्यतोऽपि कुतः माधनज्ञाप्यत्वस्यैवावगतिरित्यत आह, 'तस्मादित्यत्रेति, बमतेऽपि उपस्थितपक्षादिज्ञाप्यत्वस्य प्रकृतमाथे बाधादेव तत्रोपस्थितलिङ्गमात्रपरामर्थकत्वं तत्पदस्थेति भावः । ननु तथाशब्दात बुद्धिस्थत्वेन साध्यस्योपस्थितौ तत्र विशिष्ट हेतुज्ञाप्यत्वस्यान्वये कोदोष इत्यत आह, 'तस्मादनित्य इत्यभिधाने चेति, 'च:' हेती, 'विभिव्य' माध्यतावच्छेदकरूपेण, ‘मिद्धता' हेवनाकाङ्गितत्वं, अवगोः प्रकारमाह, 'पूर्वमिति, ‘समर्थः' व्याप्ति-पक्षधर्मताविशिष्टो