________________
अर्थापत्तिः ।
Sनुपपत्तिर्न त्वभावमाचमतिप्रसङ्गात् एवच्च व्यतिरेकव्याप्तिमत उपपाद्यायतिरेक्यनुमानमुद्रयैव साध्यसिडेः. किमर्थापत्त्या, तथाहि देवदत्तो वहिः सन् जीवित्वे afe गृहात नैवं तन्नैवं यथा मृतो गृहस्थिता वा । न चान्यव्याप्त्यान्यस्य गमकत्वेऽतिप्रसङ्गः साध्याभावव्यापकाभावप्रतियेोगित्वस्य नियामकत्वात् । न चार्थापत्ती सरूपसतौ व्याप्तिर्लिङ्गं नानुमान इति वाच्यम् । अनुपपत्तेर्ज्ञानं विना कल्पनानुदयात् अर्थ‘उपरौति, ‘उपरिषन्निहितेति सवितृसंयुक्तो परिदेशकत्वेनेत्यर्थः, तथाच तत्र भूमिः पक्षः सवित्तसंयुक्तोपरिदेशकत्वं साध्यं उपर्य्यव च्छेदेनालोकसंयोगो हेतुरिति भावः । ननु जीविले सति गृह - निष्ठाभावप्रतियोगित्वमेव लिङ्गं भवतापि तन्निष्ठव्यतिरेकव्याप्तिज्ञानस्यैवार्थापत्तिजनकत्वस्वीकारादित्याशङ्कते, 'नापौति, 'लिङ्गमित्यनुसञ्जनीयं, 'ज्ञातुमशक्यत्वादिति, तथाच लिङ्गज्ञानाभावात् न व्याप्तिग्रहदूति भावः । ननु सन्निकृष्टस्थले जीवित्वे सति ग्टहनिष्ठाभावप्रतियोगित्वस्य वहिः सत्त्वव्याप्यत्वं गृहीतं तदेवेदानों मर्य्यतेऽन्यथा भवन्मतेऽपि व्यतिरेकव्याप्तिज्ञानाभावात् कथमर्धापत्तिः, श्रपि च ग्टहनिष्ठाभावप्रतियोगित्वं न हेतुः किन्तु प्रतियोगितासम्बन्धेन गृहनिष्ठाभाव एव हेतुर्व्वाच्यः स च देवदत्तस्यासनिष्टत्वेऽपि ग्टहस्य सन्निकृष्टतया ग्रहीतुं शक्य इत्यतो व्याप्तिग्रहाभावेऽपि देवदत्तस्यासन्निकृष्टतया न पचविशेष्यकपरामर्शसम्भव इत्याह श्रत एवेति,
८००