________________
परामर्शः।
.
५
चात्मको विशिष्टपरामर्शस्तव नैयायिकसिकारणतावच्छेदकल्यापि खप्रकाशवादिना गुरूणां नये प्राथमिकप्रत्यक्षविषयत्वमिति वाच्य। न्यायमतसिद्धकारणतावच्छेदकस्य गुरुमतमिद्धकारणतावच्छेदकइययाप्यतया स्वप्रकाशमर्यादया तत्प्रत्यक्षदशायां गुरुमतमिद्धकारणतावच्छेदकइयस्यावश्यं प्रत्यक्षोत्पत्तेरित्यभिमान:(१), यदा कदापिप्राथमिकप्रत्यक्षविषयत्वस्य कारणतावच्छेदकतायामविनिगमकवात् कल्पनालाघवं विनिगमकमाइ, परामर्श हेतुत्वेनेति न्यायनये वकियाप्यधूमवान् पर्वत इत्यादिविशिष्टपरामर्शस्थानुमितिहेतुत्वेनेत्यर्थः, 'श्रावश्यकत्वादिति अस्मदुक्ककारणतावच्छेदकद्दयस्य अनुमित्यव्यवहितपूर्ववर्तितावच्छेदकत्वेन उभयवादिमिद्धानुमितिनियतपूर्ववर्त्तितावच्छेदकताकत्वादित्यर्थः, नैयायिकसिद्धयथोक्कविशिष्टपरामसंस्थाप्यस्मदुक्ककारणतावच्छेदकडयाक्रान्नत्वात्, तथाच नैयायिकमिद्धे कारणतावच्छेदके अन्यथासियनिरूपकत्व-नियतपूर्ववर्तितावच्छेदकलयोईयोः कल्पनामपेक्ष्य नियतपूर्ववर्तित्वावच्छेदकवेनोभयवादिसिद्धस्यास्मदुककारणतावच्छेदकद्वयस्य अन्यथामिद्यनिरूपकत्वमानकल्पनालाघवादिति भावः। यद्यपि न्यायनये वहिव्याप्यवानयं इति वहिव्याप्यतावच्छेदकाप्रकारकपरामर्शायचानुमितिस्तत्र व्याप्यतावच्छेदकप्रकारकव्याप्तिनिश्चयाद्यभावेन मौमांसकाभिमतकारणतावच्छेदकइयस्थाप्युभयवादिमिद्धनियतपूर्ववर्तितावच्छेदकतया दयोः कल्पनमविशिष्टं तथाप्यस्य दोषस्य ग्रन्थकतैवाये वक्ष्यमाणलाबामतिः।
(१) धूमत्वसामानाधिकरण्येन वहिव्यात्यवगाहिनि वशिष्याप्यधमवान् पर्वत इति धान एव व्यभिचारान व्याप्यत्वमित्याशयेनोक्कं अभिमान इति ।