________________
अथ पञ्चमाध्याये
प्रथममाह्निकम् भोक्ता आत्मा निरूपितः । द्रव्यानन्तरं निर्दिष्टेषु गुणेषु भोग्यतया प्रधानभूता रूपादयो विशेषगुणा अपि वहुधा निरूपिताः। अथ गुणान्तरनिरूपणं पश्चात् करिष्यन् भोक्त भॊगहेतुभूतं कर्म निरूपयितुमारभते । तत्र प्रथमं शरीरगतं कर्म कारणतो निरूपयति
१८४. आत्मसंयोगप्रयत्नाभ्यां हस्ते कम ॥१॥
हस्ते यत् कर्म जायते तस्य द्वे कारणे । एकं आत्मसंयोगः । य आत्मा तच्छरीरमधितिष्ठति तेन संयोगः हस्तस्य । तस्य आत्मनः हस्तेन संयोग इति वा। शरीरे जायमानस्य सर्वस्य कर्मणः इदं साधारणं कारणम् । मृतशरीरे कर्मणोऽभावात् । हस्ते यत् कर्म तत्र तदनुकूलः प्रयत्नः असाधारणकारणम् । प्रयत्नः प्रात्मन एव गुण इति तस्यात्मवृत्तित्वं स्वयं लम्यते । मुसलं पश्यति । तत्कर्मकादान क्रिया हस्ते जायतामिति इच्छति । तद्विषयः प्रयत्नो जायते । ततो हस्ते क्रिया भवति । ईदृशो यत्नो यदि न जायते तहि इयं क्रिया नैव हस्ते जायेतेति द्वितीयमिदं कारणम् ।
१८५. तथा हस्तसंयोगाच्च मुसले कर्म ॥२॥
तथेति हस्तस्य विशेषणम् । तादृशेत्यर्थः । आत्मसंयोगप्रयत्नाभ्यां कर्मवत्त्वाईदशापनो यो हस्तः तत्संयोगादित्यर्थः । हस्तेन मुसलं गृहीत्वा उत्क्षिपति अवक्षिपति च । उत्क्षेपणावक्षेपणात्मिके क्रिये हस्ते, उद्गमनाघोगमनात्मिके क्रिये मुसले च जायते । तत्र हस्तक्रिययोः कारणमुक्तम् । मुसल क्रिययोः कारणं विशिष्टहस्तसंयोगः । आत्मसंयोगप्रग्यस्नयोः हस्तसंयोगद्वारंव मुसलक्रियाहेतुत्वात् तावत्र ग्रन्यथासिद्धौ । हस्ते कर्म मुसले च कर्मेति चकारयोजना । १८६. अभिधातजे मुसलादौ कर्मणि व्यतिरेकादकारणं हस्त
संयोगः ॥३॥