________________
चतुर्थाध्याये प्रथममाह्निकम् नित्यानित्यभेदेन द्रव्यविभागमभिप्रेत्य तत्र नित्यं अनित्येन साधयामाम । कुत एवमनुमानेन साधनं, प्र.क्षमेव किं न सम्भवतीति शङ्कां परिहरन् प्रत्यक्षकारणमुक्त्वा तदमावात् प्रत्यक्षं न सम्भवति इति प्रतिपादयामास । अथ प्रत्यक्षकारणप्रसङ्गात् गुणप्रत्यक्ष कारणमपि वदन् प्रथमं प्रस्तुतरूपप्रत्यक्षस्यैव कारणमाह--
१६७. अनेकद्रव्यसमवाया पविशेषाच्च रूपोपलब्धिः ॥ ६ ॥
अनेकं बहु द्रव्यं समवायिकारणं यस्य तत् अनेकद्रव्यम् । महत्परिमाणववव्यमित्यर्थः । तत्र समवायात् समवायसंबन्धेन वृत्तेः, रूपविशेषात्, अनुद्भूतत्वाभिभूतत्वप्रयुक्तायोग्यत्वावस्थारहितात् रूपाच्च रूपं प्रत्यक्षं भवति । घटपटादिरूपे इदमुभयमस्ति । अतस्तत्प्रत्यक्षम् । अनेकद्रव्यसमावापाभावात् परमाणुरूपानुपलब्धिः । अनुद्भूतत्वात् निदायोमादी रूमानुपलब्धिरित्याहुः । अभिभूतत्वात् उष्णजल संपृक्ताग्निरूपानुपलब्धिः ॥
१६८० तेन रसगन्धस्पर्शोषु ज्ञानं व्याख्यातम् ॥ १०॥
तेन रूपेण, रसगन्धस्पर्शेषु यद् ज्ञानं तत् अनेन कारणेनेति व्याख्यातम् । अनेकद्रव्यसमवायात् रसविशेषाच्च रसोपलब्धिः । अनेकद्रव्यसमवायाद् गन्धविशेषाच्च गन्धोपलब्धिः । अनेकद्रव्यसमवायात् स्पर्शविशेषाच्च स्पर्शोपलब्धिः। इति रूपस्येव एषामपि उपलब्धिकारणमनुसन्वेयमिति भावः ।
ननु रूपं यथा स्वप्रत्यक्षे कारणं तद्वत् गुणान्तरप्रत्यक्षेऽपि कारणम् । तत्र पृथिवीजलयोः रूपवत्त्वात् तद्गुणयोः गन्धरसयोः प्रत्यक्षं मवतीति उपपन्नमिदम् । वायो तु रूपामावेऽपि स्पर्शोपलम्नात् कारणाभावेऽपि कार्यसत्त्वरूपो व्यभिचारो भवतीति चेत् अत्राह
१६६. तस्याभावादव्यभिचारः॥ ११ ॥
तस्य रूपस्य वायावभावात् यो व्यभिचार आशङ्कयते स वस्तुतो नास्ति । कुतः । वायो स्पर्शप्रत्यक्षे रूपस्य कारणत्वाभावात् । कारणत्वाभावश्च तद्ग्राहकप्रमा