________________
सम्पादकीयम् आस्तिकदर्शनेषु अन्यतमस्य वैशेषिकदर्शनस्य मूलं कणादकृतवैशेषिकसूत्राणि । दर्शनस्यास्य वैशेषिकदर्शन मिति प्रसिद्धिं, कणाद इति नाम्न : सार्थकत्वं, अस्य ग्रन्थस्य प्रतिपाद्यविषयं प्रति च यद्वक्तव्यं तत् वृत्तिकारः श्रीताताचार्यैरेव स्वभूमिकायामुक्तमिति न तत्र व्याप्रियते । अस्या वृत्तेः वशिष्टयमात्रमत्रातिसंक्षेपेण निरूप्यते। ___ वैशेषिकसूत्राणां व्याख्यानरूपेणाधोपलभ्यमानेषु ग्रन्थेषु प्रशस्तपादकृतभाष्यं, शङ्करमिश्रकृतः उपस्कारः, दरभङ्गाविद्यापीठात प्रकाशिता अज्ञातकतका काचन टीका, गायकवाड ओरियण्टल सीरिज़ द्वारा प्रकाशिता चन्द्रानननामकस्य पण्डितस्य टीका, पण्डितश्रीजयनारायणभट्टाचार्यस्य टीका, पण्डितश्रीचन्द्रकान्ततलिङ्कारस्य टीका, तथा मद्रासनगरीय-अभिनवदेशिक-उतमूर-श्रीवीरराघवाचार्य : कृतं व्याख्यान च विशेषतः उल्लेखमर्हन्ति । मूलग्रन्थस्य दुरूहत्वे तत्प्रति माघार्थस्य स्फुटीकरणाय व्याख्याननिर्माणे प्रवृत्तिरिति विदितं सर्वेषाम् । यदि मूलग्रन्थार्थप्रकाशनमात्र व्याख्यानानामुद्देश्यं तत् कथमेकस्यैव मूलग्रन्थस्यानेकव्याख्यानानामुत्थितिः, एकेनव पर्याप्तं किल इति शङ्का जायते । अस्या : शङ्काया: समाधानं विद्वद्भिः बहुधा क्रियते । स्थितं व्याख्यानं मूलग्रन्थाभिप्रेतं समष्यथं न प्रकाशयतीति बुद्धया व्याख्यानान्तररचनायां प्रवृत्तिर्जायते । अथवा मूलग्रन्थेनानभिप्रतः स्वेष्टः अर्थ : मूलोपरि आरोपित :, स : निराकरणीय :, मूलाभिमतार्थ : प्रकाशनीय इति मत्या अन्या व्याख्या विधीयते । अथवा केचन साहसिकाः स्वकपोलकल्पितस्यार्थस्य बहुजनपरिग्रहेष्ट्या मूलग्रन्य शिरसि हठादारोपणाय ब्याख्यानरचनायां प्रवर्तन्ते, यान् प्रति प्रसिद्धयमुक्तिः -
सूत्राभिप्रायसंवृत्त्या स्वाभिप्रायप्रकाशनात् । व्याख्यातं पैरिदं शास्त्र व्याख्येयं तन्निवृत्तये ।।