________________
अथदशमेऽध्याय द्वितीयमालिकन
[१२१ अवश्यं सम्पादनीयमित्यभिप्रेत्य "तद्वचनादाम्नायस्य प्रामाण्यम्" इति शास्त्रारम्भ उक्तम् । अधुना शास्त्रोपसंहारे तत्प्रामाण्यमेव कथमित्येतन्निरूपयति । प्राप्तोक्तत्वेन हि शब्दस्य प्रामाण्यम् । परम प्राप्तः ईश्वरः । तेन कृतत्वात् वेदस्य प्रामाण्यं निराबाघम् । इदमुच्यते तद्वचनादाम्नायस्य प्रामाण्यम् इति । तेन ऋपिणा सर्वज्ञेन सर्वदोषप्रत्यनीकस्वभावेन सर्वेश्वरेण वचनात् उक्तत्वात् उपदिष्टत्वात् आम्नायस्य वेदाख्यस्य शब्दस्य प्रामाण्यं यथार्थबोधकत्वं भवति ।।
ननु सर्वेश्वरः कश्चिदस्तीति कथं प्रत्येतव्यम् । तत्सत्त्वे किं प्रमाणमित्यत्राह 'अस्मबुद्धिम्यो लिङ्गमृषे, इति । ऋषेः सर्वज्ञस्य सर्वेश्वरस्य लिङ्गं अनुमापको हेतुः, अस्माकं याः बुद्धयः अनुभवाः कार्यकारणविषयाः इदमस्य कार्यस्य कारणं इदमस्य कारणस्य कार्य, इत्यन्वयव्यतिरेकसम्पन्नाः निश्चयाः तेभ्यो लभ्यते, सम्पद्यते । प्रतिकार्य कारणं किञ्चित् पश्यामः । कारणं विना किञ्चित् कायं भवेदिति शङ्कितुमपि न शक्यम् । एवं व्याप्तिविषयात् सुदृढात् निश्चयात् ईश्वरानुमानं सुकरं भवति । क्षित्यङ्करादिकं सकर्तृकं, कार्यत्वात्, घटवदिति । एवमनुमानसिद्धन आप्ततमेन भगवता कृत्वा उपदिष्टत्वात् वेदः प्रमाणमिति ॥
इति
कणादसूत्रवृत्तौ सुगमायां दशमेऽध्याये द्वितीयमाह्निकम् ।
समाप्तं शास्त्रम् त्रप्यन्तामृतसिन्धुमन्थनपरिस्पूजंद्रसोाप्लव
व्यासङ्गातिशयात् तदन्यविषयव्यावृत्तचित्तस्य मे । तन्त्रे काणभुजेऽजनीत्थमधुना व्याख्याविधानोद्यमः
सूत्राणां निजमर्थमाह विवृतियाँ साऽस्ति नकाऽपि यत् ।। अर्थों निबन्धेष्वयमक्षराणामित्येवमार्यरभिधेयमादौ । स्याने ततो बुद्धिबलानुरूपो विधित्सितो वादझरीविहारः॥
व्योमर्षिनन्दशीतांशुप्रमिते बाह्यवत्सरे । पूरणं कणभुक्सूत्रव्याक्रिया सुगमाऽगमत् ।।