________________
अथनवमेऽध्याये द्वितीयमाह्निकम्
१२३ संस्कारजन्यं स्वप्नान्तरं स्वप्नान्तिकमुच्यते । पूर्वस्वप्नस्यान्ते निवृत्ती जायमानमिति।
३५४. धर्माच्च ॥ ६॥
धर्माच्च स्वप्नो भवति । न संस्कारादेव । यस्मिन् स्वप्ने देवः अन्यो वा प्रादुर्भूय किञ्चित् कर्तव्यमादिशति, तदनुसृत्य क्रियमाणा जागरे प्रवृत्तिः फनवती भवति, स स्वप्नो धर्मात् पुण्यात् । धर्म इति अदृष्टोपलक्षणम् । अधर्मादपि सत्यः स्वप्नो भवितुमर्हति । जागरे अनिरूपितयाथार्थोऽपि स्वप्नः तात्कालिकसुखदुःखहेतुभूतराज्यलाभपुत्रमरणादिदर्शी धर्माधर्महेतुको भवेत् । धातुवैषम्यं संस्कारविशेषोद्वोधनद्वारा स्वप्नविशेषहेतुः, न स्वतन्त्रहेतुरिति युक्तम् ।।
३५५ इन्द्रियदोषात् संस्कारदोषाच्चाविद्या ॥ १० ॥
अयथार्थज्ञानं निरूप्यते । अयथार्थप्रत्यक्षरूपा तथाविधानुमितिरूपा वाऽविद्या इन्द्रियदोषान्मूलभूताद् भवति । अयथार्थस्मृतिस्वप्नरूपा तु संस्कारदोषाद् भवति । काचकामलालोकमान्यादिरिन्द्रियदोषः। संस्कारस्य दोषः अपटुत्वम् ।
३५६. तद् दुष्टज्ञानम् ॥ ११ ॥
अविद्येति विद्याया अभाव उक्त इति न मन्तव्यम् । दुष्टज्ञानमिह विवक्षिाम् । अंतोऽस्य इन्द्रियसंस्कारदोषजन्यत्वमुपपद्यते । अभावस्य हि तदनुपपन्नम् । दुष्टं अयथार्थ, विफलं विपरीतफलं च ।
३५७. अदुष्टं विद्या ॥ १२ ॥
इदानी विद्याया अपि लक्षणं सुवचमित्यभिप्रेत्याह । विद्याशब्दो ज्ञानार्थाद् विदधातोनिष्पन्नः । ज्ञानं च दुष्टमदुष्टं वा भवेत् । तत्र दुष्टज्ञानमपि विद्यति स्यात् । तन्न । यददुष्टं ज्ञानं तदेव विद्याशब्दाभिधेयम् । न दुष्टं ज्ञानमपि । अदुष्टे रूढत्वात् ॥
३५८. आर्ष सिद्धदर्शनं च धर्मेभ्यः ॥ १३ ॥
उक्तेभ्यो ज्ञानेभ्योऽतिरिक्तमपि यथार्थज्ञानमस्ति । तदत्राह। ऋषीणां सम्बन्धि आर्षम् । इदं प्रतिभारूपतया प्रातिभमित्यप्युच्यते । इन्द्रियनिरपेक्षं जायमानमिदं त्रैकालिकवस्तुविषयं यथार्थज्ञानम् । सिद्धदर्शनं अजनविशेषादिसंस्कृतैरिन्द्रियैर्जा