________________
मथ नवमेऽध्याये
द्वितीयमाह्निकम् ३४६. अस्येदं कार्य कारणं संयोगि विरोधि समवायि चेति
लैङ्गिकम् ॥ १॥ प्रत्यक्षानन्तरं अनुमानमुच्यते । लिङ्गादागतं लैङ्गिकम् अनुमितिरूपं ज्ञानम् । इदं विविधात् लिङ्गादुलद्यते । कयं वैविध्यम् । अस्य कारणस्य इदं कार्यमिति क्वचित् कारणं व्यापकं भवति कायं च व्याप्यम् । एवं अस्य कार्यस्येदं कारणं, अस्य द्रव्यस्येदं संयोगि, अस्य वस्तुन इदं विरोधि, अस्य ( अस्मिन् ) इदं समवायीति । अस्य नियमेन एतत्सम्बन्धीत्यर्थः । तेनात्र व्याप्तिरभिप्रेता । कार्येण नदीपूरेण पूर्वदेशे वृष्टिरनुमीयते । सस्यवृद्धया कारणेन कर्षक स्य हर्षः। उष्णेन जलेन अग्निसंयोगिनाऽग्निः । रक्तमुखेन नकुलेन हतः सर्पः । सौरभेण तद्वद् द्रव्यम् । प्रसिद्धिपूर्वकत्वादपदेशस्येति व्याप्तिरेवान प्रधानम् । नान्यः कश्चन सम्बन्ध इति पूर्वमेवेदमवधृतम् ॥
३४७. अस्येदं कार्यकारणसम्बन्धश्चावयवाद् भवति ॥ २ ॥
प्रस्येदं कार्यकारणेति पूर्वसूत्रमुच्यते । तत्राभिप्रेतो यः नियतसम्बन्धः व्याप्त्यभिधानः सः अवयवाद् भवति । अवयवः अङ्गम् । व्याप्तिनिश्चयस्याङ्ग उदाहरणम् । तस्माद् भवति । निश्चितो भवतीत्यर्थः । पूर्व नदीपूराणां वृष्टिहेतुकत्वदर्शनेन नदीपूरवृष्टयोः व्याप्ति निश्चिनोति पुरुषः। अद्यतनं नदीपूरं पश्यन् सः अयमपि वृष्टिहेतुकः पूर्वदृष्टवत् इत्यनुमिनोति । अतो व्याप्त्यवधारणं पूर्वमावश्यकम् । तद् उदाहरणे भूयोदर्शनेन भवतीति भावः । अवयवादित्यत्र किं पाठान्तरमस्तीति युक्तमन्वेष्टुम् ॥
३४८. एतेन शाब्दं व्याख्यातम् ॥ ३ ॥
एतेन अनुमाननिरूपणेन, शाब्दं शब्दप्रभवं ज्ञानं व्याख्यातं अनुमितिरूपं दर्शितं भवतीत्यर्थः । शब्दोऽपि अनुमानमेव । न तु पृथक् प्रमाणमिति भावः । चैत्रः पचतीति द्वे पदे उच्चार्यते । ताभ्यां द्वौ अयौ बोध्येते । तयोमिथः संसर्गस्य तु बोधकं किमपि नास्ति । अतः सः अनुमानगोचर इति ।