________________
अथनवमेऽध्याये प्रथममाह्निकम्
[११९ तत् प्रात्ममनसोः संयोगविशेषात् । संयोगस्य विशेषः मनसः इन्द्रियसंयोगाप्रयोजकत्वम् । ईदृशेन आत्ममनःसंयोगेन प्रात्मनः स्वप्रत्यक्षं जायते ।।
३४२. तथा द्रव्यान्तरेषु ॥ १२ ॥
पूर्वसूत्रे प्रात्मप्रत्यक्षमित्यतः प्रत्यक्षमिति विभज्येहानुपज्यते । द्रव्यान्तरप्रत्यक्षमपि आत्मन्येव जायते । अस्यैव ज्ञातृत्वात् । तदिदं द्रव्यान्तरविषयकं प्रत्यक्षमपि तथा पात्ममनसोः संयोगविशेषादेव जायते । अत्र संयोगस्य विशेषः इन्द्रियसंयोगप्रयोजकत्वम् । आत्ममनसोः संयोगः प्रात्मप्रत्यक्षे द्रव्यान्तरप्रत्यक्षे चावश्यकः । तत्र इन्द्रियेण मनःसंयोगाहेतुः स संयोगः आत्मप्रत्यक्षं जनयति । तद्धेतुस्तु द्रव्यान्तरप्रत्यक्षं जनयतीति भावः ।।
३४३. असमाहितान्तःकरणाः उपसंहृतसमाधयस्तेषां च ॥ १३॥
ये निष्पन्नयोगा योगिनः ते यदा समाधौ वर्तन्ते तदा संयमबलेन ऐन्द्रियिक च अतीन्द्रियं च सर्व वस्तु प्रत्यक्षयन्ति । तदलौकिकं प्रत्यक्षम् । यदा तु ते समाधि न कुर्वन्ति, असमाहितमनसो भवन्ति, अथवा समाधि कृत्वा ततो व्युत्थिता भवन्ति तदा ते अयोगिवदेव वर्तन्ते । तेषां च अस्यामवस्थायां अन्येषामिव आत्मनि आत्ममनसोः सन्निकर्षविशेषात् स्वप्रत्यक्षं वा द्रव्यान्तरप्रत्यक्ष वा लौकिकं भवतीत्यर्थः॥
३४४. तत्समवायात् कर्मगुणेषु ॥ १४ ॥
तच्छब्देन द्रव्यान्तराणि परामृश्यन्ते । तेषु समवायात् तत्समवायरूपात् सन्निकर्षात् तद्वतिषु कर्मसु गुणेषु च प्रत्यक्षं भवति ॥
३४५. आत्मसमवायादात्मगुणेषु ॥ १५ ॥
मनःसंयुक्तात्मसमवायरूपात् सन्निकर्षात् आत्मवतिषु गुणेषु सुखदुःखादिषु प्रत्यक्षं भवति । प्रात्मनि काभावात् गुणमात्रोक्तिः । बाह्यवस्तुप्रत्यक्षनिरूपणानन्तरं आन्तरस्यात्मनः प्रत्यक्षनिरूपणं क्रमप्राप्तम् । ज्ञानकारणे प्रात्मेन्द्रियार्थसन्निकर्षे घटकानां अर्थानामिन्द्रियाणां च विमर्शानन्तरं प्रातिलोम्येन आत्ममनसोरुपस्थिती तत्सन्निकर्षस्य विभिन्नज्ञानकत्वोक्तिरपि सङ्गतिबलात् प्रसक्ता । तत्प्रसङ्गाच्च द्रव्यान्तरसमवेतकर्मगुणप्रत्यक्षस्य आत्मसमवेतगुणप्रत्यक्षस्य च हेतुभूतः सन्निकर्ष उच्यत इति