________________
अथाष्टमेऽध्याये द्वितीयमाह्निकम्
[११५ रूपवत तेज एव प्रकृतिः। स्पर्शमात्र ग्राहकस्य अत एव गन्धरसरूपत्रितयासमानाधिकरणस्पर्शवतः त्वगिन्द्रियस्य तादृशस्पर्शवान् वायुरेव प्रकृतिः ।
शब्दमात्रग्राहकस्य श्रोत्रस्य आकाशात्मकस्य कार्यत्वाभावात् न प्रकृतिचिन्तेति बोध्यम् ।
इति
कणादसूत्रवृत्ती
सुगमायां
अष्टमेऽध्याये द्वितीयमाह्निकम्