________________
सप्तमऽध्याये द्वितीयमाह्निकम्
[१०७ द्रव्येषु विशेषः, इति यत्र यत्र समवायः तत्र तत्र प्राधाराधेयभावस्य सत्पात् । न च कालिकसम्बन्धेऽतिव्याप्तिः । तद्भिन्नत्वस्यापि लक्षणे निवेशनात् । इहेदमिति प्रत्ययस्य बाह्यवस्तुविषयतया बाह्यगुणनिरूणानुपदं समवायनिरूपणमिति ज्ञेयम् ।
पूर्व कार्यकारणभूतयोव्ययोः संयोगो नास्तीत्युक्तम् । कस्तहि तयोः सम्बन्ध इति जिज्ञासाशमनाय इह कार्यकारणयोरित्युच्यते । न तु इतरव्यवच्छेदाय । “इहेदमिति यतः स समवायः" इत्येतावतैव लक्षणसिद्धेः कार्यकारणयोरित्यस्य तद्धटकत्वायोगात् ॥
इत्थं इहेदमिति प्रत्ययनिर्वाहकतया समवायं प्रसाध्य तस्य द्रव्यादिभ्योऽतिरिक्तपदार्थत्वं साधयन्नाह
३१२. द्रव्यत्वगुणत्वप्रतिषेधों भावेन व्याख्यातः ॥ २७ ॥
तस्येत्यध्याहारः । तस्य समवायस्य द्रव्यत्वप्रतिषेधः द्रव्यत्वाभावः, द्रव्यपदार्थ अनन्तर्भाव इति यावत् । गुणत्वप्रतिषेधः गुणत्वाभावः, गुणेष्वनन्तर्भाव इति यावत्, भावेन सत्तासामान्येन व्याख्यातः ज्ञापितो भवति । यथा गुणसामान्यशून्यत्वात् कस्यचित् कार्यस्य समबायिकारणत्वाभावाच्च सत्ता न द्रव्यं तथा तत एव हेतोः समवायो न द्रव्यम् । यथा गुणकर्मसु च भावात् सना न गुणाः तथा समवायोऽपि गुणकर्मानुबन्धित्वान्न गुणः । चलनात्मककर्मत्वाभावस्य स्पष्टत्वात् तत्प्रतिषेध इह न कण्ठोक्तः। आधाराधेयभाव निर्वाहकतया सिद्धयन् समवायः आधेयभूताभ्यां सामान्यविशेषाभ्यामतिरिक्ततयव सिद्धयतीति तद्वयतिरेकाभिधानमपि नापेक्षितम् । अतः द्रब्यादिभ्यः पञ्चभ्यः पदार्थेभ्योऽतिरिक्तः समवाय इति भावः ॥
समवायस्य एकत्वं साधयति३१३. तत्त्वं भावेन ॥ २८ ॥
तस्य तत्त्वं एकत्वं, भावेन सत्तासामान्येन व्याख्यातं ज्ञापितं भवति । इहेदमिति लिङ्गाविशेषाद्विशेषलिङ्गमावाच्च एकः समवाय इति भावः ।।
इति करणादसूत्रवृत्तौ सुगमायां सप्तमेऽध्याये द्वितीयं
आह्निकम्