________________
सप्तमेऽध्याये द्वितीयमाह्निकम्
[१०३ २६७. कर्मभिः कर्माणि गुणैर्गुणाः अणुत्वमहावाभ्यामिति ॥१२॥
कर्मभिः कर्माणि निर्गुणतया व्याख्यानानि । गुणैर्गुणाः तथा व्याख्याताः । अणुत्वमहत्त्वाभ्यां कर्मगुणाश्च व्याख्याता इति पूर्ववद्योज्यम् । एतद्ज्ञापनाय इतिकारः। संयोगविभागाभाववत्तया व्याख्याता इति विशेषः।
इत्थं संयोगविभागयोः, गुणान्तरेषु, कर्मसु च संयोगविभागौ न स्त इत्युक्तम् । अथ कार्यकारणद्रव्ययोरपि नास्तीत्याह२६८. युतसिद्धयभावात् कार्यकारणयोः संयोगविभागौ न विद्यते
॥१३॥ घटकपालतन्तुपटादिरूपयोः कार्यकारणद्रव्ययोः संयोगविभागौ न स्तः । कुतः । युतसिद्धयभावात् । युते अमिश्रे परस्परं सम्बन्ध रहिते । तयोः सिद्धिः स्थितिः विद्यमानता । तस्या अभावात् । परस्परं सम्बन्धं विना पृथक् स्थितयोद्रव्ययोः पश्चाज्जायमानः सम्बन्धः संयोगः। न च समवायिकारण तत्कार्यभूते द्रव्ये प्रथम पृथक स्थिते पश्चात मिथः संबद्धे यथा घटतदन्ततिजले । अतः पूर्व पृथक् स्थित्यमावात् न तयोः संयोगः सम्बन्धः। यद्वा युते मिन, प्रथमं पृथक् स्थिते पश्चात् सम्बद्ध तयोः सिद्धिः तदभावात् ।
____ कार्यकारणे मिथः सम्बद्ध स्तः । न च ते पूर्व पृथक् स्थिते पश्चादेवं सम्बद्धे । अतो युत सिद्धयभावात् न तयोः संयोगः सम्बन्धः । अपि तु अन्य एव । यु मिश्रणामिश्रणयोरिति धातुः । तत्रामिश्रणार्थकत्वे विद्यमानस्य सम्बन्धस्य पृथक् स्थितिपूर्वकत्वाभावादित्यर्थः । स प्रथममुक्तः । मिश्रणार्थकत्वे कार्यकारणयोः पृथक् स्थितिपूर्वकसम्बन्धाभावादित्यर्थः । सः अनन्तरमुक्तः ।।
अथ शब्दार्थयोरपि संयोगो नास्तीति साधयन् प्रथमं हेतूनाह२६६. गुणत्वात् ॥१४॥
शब्दो हि गुणः । न च तस्य केनविदन्येन संयोगः सम्भवति । गुणे गुणानङ्गी कारात् ॥
३००. गुणोऽपि विभाज्यते ॥१५॥
यथा वाचकः शब्दः तथा अर्थोऽपि केषाञ्चित् शब्दानां वाच्यः गुणः विभाव्यते प्रतीयते । न च गुणयोः मिथः संयोगः सम्भवति । द्रव्यवत् गुणोऽपि शब्देन बोध्यते ।