________________
[१०१
सप्तमेऽध्याये द्वितीयमाह्निकम् ननु कुतो भ्रम इत्युच्यते । स्वसजातीयरहितत्वमेव तत्र एकत्वमित्युपचर्यते । तेन औपचारिकोऽयं प्रयोग इति कुतो नोच्यते । अत्राह
२६१. एकत्नाभावाद् भक्तिस्तु न विद्यते ॥६॥
तुकारः उक्ताक्षेपनिवर्तकः । भक्तिरुपचारः । सा न विद्यते । न सम्भवतीति यावत् । स्वसजातीयद्वितीयत्वं हि स्वस्वसजातीयवृत्तिद्वित्वसङ्ख्यापूरकत्वम् । द्वित्वं च स्ववृत्ति यदेकत्वं यच्च स्वसजीयवृत्ति एकत्वं तदुभयवुद्धिरूपापेक्षाबुद्धिजन्यः सङ्खयाविशेष इति वाच्यम् । न च वक्तुं शक्यते । स्वस्मिन् वा स्वजातीये रूपान्तरे वा एकत्वाभावात् । अतो नात्र उपचारः । अपि तु भ्रम एव । ननु आश्रयद्रव्यगतमेकत्वं तत्र आरोप्य एकत्वव्यवहार इति चेत् तर्हि आहायंभ्रमोऽयं भवति । सर्वथा एकं रूपमित्यादिव्यवहारस्य आहार्योऽनाहार्यो वा भ्रम एव मूलम् । अथात्र एकपदस्य एकद्रव्यवृत्तित्त्वे लक्षणे ति चेत् इष्टमेवैतत् । अयं कर्मगुणानामेकत्वनिषेधः एकपृथक्त्वनिघस्याप्युपलक्षकः ॥
एवं कर्मणां गुणानां च एकत्वकपृथक्त्वयोरभाव उक्तः । अथ द्रव्य एव क्वचित् ते न स्त इत्याह
२६२. कार्यकारणयोरेकत्नैकपृथक्त्वाभानादेकत्वैकपृथक्त्वं न निद्यते ॥७॥
कार्यकारणयोः घटकपालयोः पटतन्त्वोः एवमन्ययोश्च एकत्वैकपृथक्त्वं एतदुभयमित्यर्थः । न विद्यते नास्ति । कुतः। एकत्वकपृथक्त्वाभावात् । एकत्वं च एकपृयक्त्वं च अनयोः समाहारः एकत्वैकपृथक्त्वम् । तस्याभावात् । परस्परं भिन्नत्वादित्यर्थः । समवःयिकारणात कार्य हि भिन्नम् । न च मियो भिन्नयोः द्वयोः घटपटयोरिव एकत्वं वा एकपृथक्त्वं वा.सम्भवतीति । यद्यपि भेदप्रतिपादनतात्पर्येण एकत्वाभावमात्रस्य एकपृथक्त्वाभावमात्रस्य वा उक्तिः पर्याप्ता तथाऽपि एकत्वाभावस्येव एकपृथक्त्वाभावस्यापि भेदव्याप्यत्वेन तदुपस्थापनक्षमत्वव्यञ्जनाय तस्यापि ग्रहणमिति ज्ञेयम् ॥
२६३. एतदनित्ययोर्व्याख्यातम् ॥८॥
अनित्ययोः कार्यकारणयोः विद्यमानं एतत् एकत्वैकपृथक्त्वं व्याख्यात अनित्यवृत्तिपरिमाणवत् अनित्यतया ज्ञयमित्यर्थः । नित्यवति नित्यमित्यपि ज्ञापितप्रायम् ।
एकत्वनिरूपणेन अनेकैऋत्वबुद्धिरूपापेक्षाबुद्धिजानि द्वित्वादीन्यपि सङ्ख्या. न्तराणि निरूपितानि भवन्ति । एवमेकपृथक्त्वनिरूपणेन द्विपृथक्त्वादीन्यपि। एकत्व