________________
सप्तमऽध्याये प्रथममाह्निकम्
___EE] २८३. तदभावादणु मनः ॥ २३ ॥
तस्य विभवस्याभावात् मनः आकाशवत् महत् न भवति । शरीरान्तर्मात्रवृत्तित्वात् तस्य विभवाभावः। मध्यमपरिमाणे च न किञ्चित् प्रमाणम् । तस्मात् तदणु । द्रव्यं हि तत् । ततस्तत्र अवश्यं किञ्चित् परिमाणं वाच्यम् । तत्र अन्यस्यानुपपत्त्या अणुत्वं निश्चीयते ॥
२८४. गुणैदिग्व्याख्याता ॥ २४ ॥
गुणैः सर्वत्र विद्यमानपरत्वतत्प्रत्ययादिरूपः गुणः दिगपि महत्परिमाणवत्तया ज्ञापितैवेत्यर्थः।
२८५. कारणे कालाख्या ॥ २५ ।।
सङ्कोचे प्रमाणाभावात् 'कारणे' इत्यस्य 'सर्वकार्यकारणे' इत्यर्थः । तस्मिन् काल इत्याख्येति पूर्वमेवोक्तम् । कार्याणि सर्वत्रोत्पद्यन्ते । अतः सर्वत्र कालो वर्तत इति सोऽपि विभुमहांश्चेति सिद्धयति ।
स्वनिष्ठगुणवशादेव आकाशात्मनोः विभुत्वं सिद्धयति । परनिष्ठगुणवशात् दिक्कालयोः। अनेन विशेषेण एषां निरूपणे क्रमोल्लङ्घनम् । तदभावादिति विभवस्य तच्छब्देन परामर्शसौकर्याय मनस: मध्ये निवेशः॥
इति कणादसूत्रवृत्ती
सुगमायां सप्तमेऽध्याये प्रथममाह्निकम्