________________
८१
पञ्चमाध्याये द्वितीयमाह्निकम् सति तेन हेतुना आत्मसंयुक्त मनः त्वगिन्द्रियेण संयुज्य वेधज्ञानं जनयति । तेन दुःखम् । सर्व सुख दुःखं च मनःकर्माधीनम् ।
२१७. तदनारम्भ आत्मस्थे मनसि शरीरस्य दुःखाभावः । स योगः
तस्य सुखदुःखहेतुभूतस्य सन्निकर्षस्य अनारम्भे अनुत्पादने सति । कथं तदनुत्सादनमित्यत्राह-प्रान्मस्थे मनसीति । अभ्यामवशीकृते मनमि अन्मचिन्तामात्रपरे सतीत्यर्थः । आत्मनि तिष्ठतीति आत्मस्थम् । तस्मिन् । स्थितिश्च तदेकचिन्तनम् । अभ्यासपाटवेत मनसि आत्मनिष्ठे सति विषयान्तरेभ्यो विमुखं तत तत्मन्निकर्षहेतुभूतकर्मरहितं भवति । अतो न सन्निकर्षोत्पादनमिति भावः । शरीरस्य दुःखाभावः शरीरसम्बन्धि तत्प्रयुक्त यद् दुःखं तस्यामावो भवति । यद्यपि दुःखाभाव इत्येवालम् । तथापि शरीरसम्बन्धप्रयुक्तमेवात्मनः सर्व दुःख मिति जापनाय शरीरस्य दुःखाभाव इत्युक्तिः । “सशरीरस्य दुःखाभावः' इति पाठः किमस्तीति युक्तमन्वेष्टुम् । शरीरे सत्यपि दुःखाभाव इति तदर्थः । स योग: । सः दुःखहेतुभूतार्थसन्निकरिम्भककर्मरहितस्य मनसः आत्मनि स्थिति: योगः योगशव्दाभिधेयो मोक्षोपाय इत्यर्थः। आत्मनि स्थितिः तत्स्मतिसन्ततिः। पूर्वसूत्रे सुखदुःखयोरुभयोरुपादानात् इहापि उभयोरमावो वक्त मुचितः । तथाऽपि प्राज्ञः वैषयिकस्य सुखस्य अल्पत्वास्थिरत्वादिहेतुभिः दुःखकोटौ परिगणनात् दुःखाभाव इति उभयाभाव एवाभिप्रेत इति ज्ञेयम् । सुखदुःखाभाव इति स्पष्टानभिधानं तु आत्मचिन्ताजन्यस्य सुखस्य तदानीं विद्यमानत्वेन सामान्यतः सुखाभावानिधानं न घटत इत्यभिप्रायेण ।
एवं मनसा साध्यो मोक्षोपाय उक्तः । अथ मोक्षं निरूपयितुकामः यस्मान्मोक्षो विवक्षितः तस्य बाघस्य स्वरूपं प्रतिपादयिष्यन् तदुपयोगितया किञ्चिदाह -
२१८. कायकर्मणा आत्मकर्म व्याख्यातम् ॥ १७ ॥
आत्मा विभुः। तस्य कर्म नास्ति । तथापि कायस्य यत् कर्म तदेव आत्मकर्मतया उपचर्यते व्यवहारसौकर्याय । तत्रानुपपत्तिर्न शङ्कनीया। व्यवहारस्य प्रोपचारिकत्वात् ।
__ कायकर्मणा ज्ञातेन प्रात्मकपि ज्ञातं भवति । अव्यतिरिक्तत्वादिति सूत्रार्थः ।
अथ बन्धस्वरूपं सकारणमाह२१६. अपसर्पणमुपसर्पणमशितपीतसंयोगाः कार्यान्तरसंयोगाश्चा
दृष्टकारितानि !!१६॥