________________
( ८ )
एवं पाठका : अस्यां वृत्ती बहून् गुणान् स्वयमवधारयेयु: । वृत्तिकारा: श्री ताताचार्यमहाशयाः सर्वशास्त्रविशारदा इति सस्कृतलोको जानात्येव। प्राचार्यमहोदय : स्वपीठिकायां तान् प्रति यद्वक्त व्यं तदुक्तमेव । अत : तद्विषये नास्माभि : विशिष्य किञ्चिदत्र लिख्यते। संस्कृतग्रन्थानां तत्रापि शास्त्रग्रन्थानां लेखका : अतिविरलाः। कथञ्चित् लेखनेऽपि तद्ग्रन्थानां मुद्राप्य प्रकाशनं दुष्करं वर्तते । इयं वृत्तिरपि वृत्तिकारेषु ताताचार्येषु जीवत्सु प्राकाश्यं नालभत । अद्य गंगानाथझा केन्द्रीय-संस्कृत विद्यापीठाधिकारिमिरियं वृत्ति : प्राकाश्यं नीता इति तद्विषये अस्माकं कृतज्ञतां निवेदयाम :। आशास्महे चानया घृत्त्या वैशेषिकदर्शनाध्येतारः अत्यधिक साहाय्यं प्राप्नुयुरिति ।
वि. श्री. रङ्गन्नाथाचार्यः