SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ 20000000000000000000000000000 सुकृतमेव बुधैरमृतं मतं तदितरद् विषमं विषमुच्यते । सुकृतिनो विलसन्ति सदा मुदा तदितरे विविधाऽऽपदमाश्रिताः ॥ ८॥ | यथा नमिराजर्षेः-बहूनां कलहो नित्यं द्वयोः संघर्षणं भवेत् । एकाकी विचरिष्यामि कुमारीवलयं यथा ॥९॥ - इत्यादिशुभध्यानप्रव्रज्याग्रहणमनोरथवतो दाघज्वरोपशमः । तथा धर्मो मित्रवद् नित्यं हर्ष करोति । यतः-नित्यमित्रसमं देहं खजनाः पर्वसन्निभाः । नमस्कारसमो धर्मस्तस्माद् धर्म समाचरेत् ॥ १० ॥ धर्मतः सकलमङ्गलावली धर्मतः सकलशर्मसंपदः। धर्मतः स्फुरति निर्मलं यशो धर्म एव तदहो! विधीयताम् ॥११॥ श्रीजिनधर्मस्य निरुपमानस्यापरोपमानाभावात् पित्रादीन्युपमानानि यानि दत्तानि सन्ति तानि वनेचरदृष्टान्तेन ज्ञातव्यानि । यथा-अश्वाहतनरवाहननृपः केनचिद् वनेचरेण शीतलजलवादुफलोपदौकनेन संतोषितः; पश्चात् खसैन्यमिलने राज्ञा भिल्लः सार्धमाकारितः स्वावासासन्नसौधे स्थापितः पट्टकूलतुरङ्गमोदकादिनानाविधवस्तुप्रदानेनावर्जितः; कियद्वर्षानन्तरं स्वकुलमिलनार्थमेकाकी वने प्राप्तः, सज्जना मिलिताः, तेषामग्रे स्वभोजनादिवाः करोति स्म। तैरभाणि--अश्वाः कीदृशाः । तेन तत्रोपमानाभावादुक्तम्-हरिणरोझोपमाना अश्वाः; कपित्थफलोपमाना मोदकाः, कन्दरासमा आवासाः, भूर्जपत्रसमानानि पट्टक्लानि, ताड़ (२५५) 0000000000000000000000000000000000000000000000000000 0000000000000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy