________________
०००००००००००००००००००००००००००००००००००0000000000000
अतिनिर्मला विशाला सकलजनाऽऽनन्दकारिणी प्रवरा । कीर्तिर्विद्या लक्ष्मीधर्मेण विजृम्भते लोके ॥१॥ कीर्तिर्भाग्यलभ्या । यतः-- यस्य कीर्ति जनो वक्ति न्यायधर्मे दृढा मतिः । अपवादाद् भयं यस्य पुरुषः पुरुषो हि सः॥२॥ यं प्रशंसन्ति राजानो यं प्रशंसन्ति सज्जनाः । गुरवो यं प्रशंसन्ति तमाहुः पुरुषोत्तमम् ॥ ३ ॥ यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः । यं प्रशंसन्ति बन्धुक्यस्तमाहुः पुरुषाधमम् ॥ ४ ॥
श्रीस्थूलभद्रस्य निर्मलब्रह्मव्रतपरिपालनजा कीर्तिः ८४जिनचतुर्विंशतिकावधिभाविनी । श्रीरामस्य ११लक्षवर्षभवनेऽपि न्यायजा कीर्तिरद्यापि नवीनैवाऽस्ति, रावणादीनां दुष्कीर्तिरपि । ब्रह्मेन्द्रस्य विंशतिसागरकोटीकालप्रमाणा रैवते श्रीनेमिबिम्बनिर्मापणजा जनैगीयते कीर्तिः । एवं श्रीयुगादिदेवादीनामपि वाच्या ॥ निर्मला विद्याऽपि पुण्यादेव भवति । यतः
वेश्यानामिव विद्यानां मुखं कैः कैर्न चुम्बितम् ॥ हृदयग्राहिणस्तासां द्वित्राः सन्ति, न सन्ति वा ॥५॥
श्रीबप्पभट्टिसूरीणां क्षुल्लकत्वे शतश्लोकाध्ययनप्रज्ञा, श्रीवजूस्वामिना पालनकसुप्तेनैकादशाङ्गी पठिता, । दुर्बलिकापुष्पमित्रस्य विद्याऽध्ययनध्यानेन सोहलकघृताऽऽहारग्रहणेऽपि दुर्बलत्वम् , श्रीसोमप्रभसूरीणां श्लोकगा
1000000000000000000000000000000000000000000000
.(२७१)