________________
ooooooooooonoronnonmmmmrom
यद् दानं व्रतसंपदुज्ज्वलतरा यत् केवलश्रीनवा यद् रम्याऽतिशया जिने तदखिलं धर्मस्य विस्फूर्जितम् ॥१॥३॥
जिनानामवतारकल्याणकं माङ्गलिककारणं यथा--स्त्रीवेऽपि जनन्या रत्नकुक्षिधारिणि! तुभ्यं नमोऽस्विति शक्रादीनां नमस्करणीयता, जनकगृहे पुराणनिधानस्थापना, श्रीवर्धमानावतारे सर्वर्या वृद्धिः,श्रीशान्त्यवतारे जननीस्नानवारिणा रोगोपशान्तिः, श्रीआजितावतारे जनन्या जयः, गयवसहेत्यादि१४स्वप्ना अतिदुर्लभाः ।।
तथा जन्मनियद् घण्टानदनं स्वयं सुरपतेर्यद् विष्टराऽऽन्दोलनं दिक्कन्याऽऽगमनं सुपर्वचलनं जन्मोत्सवायाऽऽदरात्। वृक्षाणां नमनं ह्यधोमुखतया यत् कण्टकाध्यासनं प्रौढच्छत्रमिवाधिपस्य तदिदं धर्मस्य संसूचकम् ॥ २ ॥ नारका अपि मोदन्ते ॥३॥ मणिमौक्तिकवस्त्ररत्नवृष्टिरिन्द्रकृता पारणकादौ। जिनरूपं जगदद्भुतम् । यतः--
सव्वसुरासुररूवं अंगुट्ठयमाणयं विउव्विजा । जिणपायंगुर पइ न सोहइ एतं जह इंगालो ॥ ४ ॥ यैः शान्तरागरुचिभिः ॥ ५॥ राज्यश्रियस्त्रैलोक्यस्पृहणीयाः। यतः-- सन्ती कुंथू अरा अरिहन्ता चेव चक्कवट्टी अ । अवसेसा तित्थयरा मण्डलिआ आसि रायाणो ॥ ६॥ दानं तु सांवत्सरिकम्
(२५३)
00000000000000000000000000000000000000000000000000000