________________
तैरात्मा सुपवित्रितो निजकुलं तैनिर्मलं निर्मितं तैः संसारमहान्धकूपपततां हस्तावलम्बी ददे | लब्धं जन्मफलं कृतं च कुगतिद्वारैकसंरोधनं ये शत्रुञ्जयमुख्यतीर्थनिवहे यात्रासु क्लृप्तोद्यमाः ॥ १ ॥ यतः--कृत्वा पापसहस्राणि ह्या जन्तुशतानि च । इदं तीर्थं समासाद्य तिर्यञ्चोऽपि दिवं ययुः ॥ २ ॥ शत्रुञ्जये जिने दृष्टे दुर्गतिद्वितयं क्षिपेत् । सागराणां सहस्रं च पूजास्नात्रविधानतः ॥ ३ ॥ पल्योपमसहस्रं च ध्यानाद्, लक्षमभिग्रहात् । दुष्कर्म क्षीयते मार्गे सागरोपमसंचितम् ||१|| (युग्मम् ) इत्यादि श्रीशत्रुञ्जयमाहात्म्यं बहु कल्पस्तोत्रगर्त वाच्यम् ॥ सर्वेपूपदेशेषु दृष्टान्ताः ५२ देवालययात्राकारकसा• सारङ्ग-४४देवालययात्राकृत्सा • सोनपाल - २४देवालय यात्राकृत्सा० सालिग सा० समरा-१० देवालययात्रा परसा० गुणराजादींना वाच्याः ॥ इति यात्रोपदेशः १० ॥
संसारेऽसुमता नरामरभवाः प्राप्ताः श्रियोऽनेकशः कीर्तिस्फूर्तिमदर्जितं च शतशः साम्राज्यमप्यूर्जितम् । स्वाराज्यं बहुधा सुधाभुजचयाराध्यं समासादितं लेभे पुण्यमयं कदापि न पुनः संघाधिपत्यं पदम् ॥ १ ॥ दृष्टान्तो यथा--बप्पभट्टिसूरिभिः प्रत्यहं पञ्चतीर्थे देववन्दनं विना वाराकरणनियम आकाशगामिनीविद्यया प्रतिपालितः ।
(२५१)