________________
करणीयभासुरा कृता ॥ तद्विस्तरः पं०-- श्रीरत्नमण्डनसूरिकृतसुकृतसागरकाव्यगतो वाच्यः ॥ इति यात्रोपदेशः ८ ॥
's
तीर्थे यात्रा विधेया निजकरकमलैः पूजनीया जिनेन्द्रा आदेशाः श्रोत्रपेयाः सगुणगणभृतां जन्तवश्चानुकम्प्याः । देयं पात्रेषु दानं सुकृतिजनशुभा संगतिः साधु कार्या मोक्षश्रीरेप्यतीत्थं विधिवदिह जनाः कुर्वतां पश्यतां च ॥१॥ दृष्टान्तो यथा--भरतेश्वरेण श्रीशत्रुञ्जयस्वर्णमयप्रासादो मणिमयविम्बं च कारितम् ; तद्दारके ९९ कोटि ८९ लक्ष ८४ सहस्रराजानः सङ्घपतयः संजाताः । सगरेण ताम्रमयः प्रासादो रत्नमयविम्बं कारितम् । तद्वारके ५० कोटि ९५ लक्ष ७५ सहस्रराजानः सङ्घपतयः । पाण्डवैः काष्ठमयप्रासादो लेप्यमयं विम्बं कारितम् तद्वारके २५ कोटि ९५ लक्ष ७५ सहस्रराजानः सङ्घ० । पाण्डवविक्रमादित्यान्तराले ८४ सहस्रनृपाः श्रेणिकदधिवाहनशिलादित्यसदृक्षाः सङ्घ • श्रेष्ठि • जावडि श्रे० सा• समरान्तराले ३ लक्ष ८४ सहस्रश्रावकसङ्घ • ७० सहस्रभाव - सारसङ्घ॰ १६ सहस्रराजपुत्रसङ्घ • १५ सहस्रजैनब्राह्मणसङ्घ ० १२ सहस्रांजिणासं० ९ सहस्रलेऊआसङ्घ • ५ सहस्र ४५ कंसारासं • सप्तसहस्रमातङ्गसंघ० ५०० ऊकड १ मातङ्गस्य संधि आगता; ५ श्रीशत्रुञ्जयप्रदक्षिणां दत्वैव तलहट्टिकातः पश्चाद् वलिता मलिनत्वान्न तूपरि चटिताः ॥ इति यात्रोपदेशः ९ ॥
(२५०)
0000000000