________________
वैद्यौ चकार । एवं सर्वत्र विवेक एव विलोक्यते । यतः
यत्संतोपसुखं यदिन्द्रियदमो यच्चेतसः शान्तता यदीनेषु दयालुता यदपि गीः सत्यामृतस्यन्दिनी । शौर्य धैर्यमनार्यसङ्गविरतिय सङ्गतिः सज्जने एते ते परिणामसुन्दरतराः सर्व विवेकाकुराः ॥ ११॥
विवेकः सह सम्पत्त्या विनयो विद्यया सह । प्रभुलं प्रश्रयोपेतं चिह्नमेतन्महात्मनाम् ॥ १२ ॥ यथा-दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुते तस्य तृतीया गतिर्भवति॥१३॥
इति पुरोहितोक्ते भूमिगृहान्तरालभणनोत्पन्नविवेकेन सोमनृपतनयेन भर्तृहरेणोक्तम्आयासशतलब्धस्य प्राणेभ्योऽपि गरीयसः । गतिरेकैव वित्तस्य दानमन्या विपत्तयः ॥ १४ ॥ अतो जिनार्चा विवेकेनैव कार्या ॥ इति जिनार्कोपदेशः ४८॥
morcoooooo
1000000000000000000000000000000000000००००००००००००००००
पूजामाचरतां जगत्त्रयपतेः सङ्घार्चनं कुर्वतां तीर्थानामभिवन्दनं विदधतां जनं वचः शृण्वताम् । सद्दानं ददतां तपश्च चरतां सत्त्वानुकम्पाकृतां येषां यान्ति दिनानि जन्म सफलं तेषां सपुण्यात्मनाम् ॥१॥ देवपूजादिपुण्यकरणीयकारकाणां सफलं जीवितं गोत्रं च ज्ञातव्यम् । यतः
(२३२)
20000000000000000000000