SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ 000000000000000000000000000000000000000000 फलं पूजाविधातुः स्यात् सौभाग्यं जनमान्यता । ऐश्वर्य रूपमारोग्यं स्वर्गमोक्षसुखान्यपि ॥ १॥ श्रीजिनपूजाकारकस्य सौभाग्यराज्यत्राद्विस्वर्गमोक्षसौख्यानि भवन्ति । यदुक्तम्खीरेण जो अभिसेअं करइ जिणंदस्स भत्तिराएण । सो खीरधवलविमले रमइ विमाणे मुचिरकालं ॥२॥ दहिकुम्भेहिं जिणंदं जो सिंचइ सो अ सुरविमाणेसु । उप्पज्जइ लच्छिधरो देवो दिव्वेण रूवेण ॥३॥ इत्तो घयाभिसेअं जो कुणइ जिणेसरस्स पययमणो । सो होइ सुरहिदेहो सुरपवरो सुरविमाणेसु ॥ ४॥ कंचणमोत्तियविद्रुमरयणाभरणेहि भावसंजुत्तो । जो पूअए जिणंदं सो पावइ सासयं ठाणं ॥ ५॥ ___ यथा श्रीवस्तुपालमन्त्रिणा स्वकारितमपादलक्षश्रीजिनबिम्बाना श्रीशत्रुजयजिनबिम्बानां च सुवर्णरत्नमयाऽऽभरणानि कारितानि ॥ इति जिनार्थोपदेशः २३ ॥ 50००००००००००००००००००००००००००००००००००००००००००००००00000 यः पुष्पैर्जिनमर्चति स्मितसुरस्त्रीलोचनैः सोऽर्च्यते यस्तं वन्दत एकशस्त्रिजगता सोऽहर्निशं वन्द्यते । यस्तं स्तौति परत्र वृत्रदमनस्तोमेन स स्तूयते यस्तं ध्यायति वलुप्तकर्मनिधनः स ध्यायते योगिभिः ॥ १॥ यश्चम्पकादिसुरभिपुष्पैः श्रीजिनं पूजयति स विकसितप्रेमपरवशदेवाङ्गनानयनारविन्दैः सर्वाङ्गं पूज्यते; (१९४)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy